SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ अपत्याधिकारविप्रकरणम् ३९१ एभ्यो गोत्रे फखा । द्रौणायणः द्रौणिः । पार्वतायनः पार्वतिः । जैवन्तायनः जैवन्तिः । अनादिरिह द्रोणः । अश्वत्थाम्न्यनन्तरे तूपचारात् । ११०६ | अनुष्यानन्तये विदादिभ्योऽञ् ( ४.१.१०४ ) पुत्रस्यापत्यं पौत्रः । विदादिः – ४. १३. } ११०७ । गर्गादिभ्यो यञ् । ( ४.१.१०५ ) गोत्र इत्येव । गार्ग्यः । वात्स्यः । गर्गादिः ४. १४ . अस्मिन्नेव ग्रन्थे श्लो० 626. जमदमेरपत्यं पुमान् जामदग्न्यः परशुरामः । गर्गादिपाठादपत्येऽपि गोत्रत्वारोपाद्यञ् । साक्षादपत्यत्वविवक्षायां तु ऋम्यगिजाम भवति । किरातार्जुनीये - XIII. 62. अस्त्रवेदमधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः । जामदग्न्यमपहाय गीयते तापसेषु चरितार्थमायुषम् ॥ 1269 ॥ जामदग्न्यः । जमदग्नेरपत्यं, यञ् । लुक् न । ११०८ | यञञोश्च । ( २. ४. ६४ ) बहुत्वे लुक् स्यात् । गर्गाः । वत्साः । बिदाः । उर्वाः । पौत्राः । दौहित्राः । 1 1 १११५ । शिवादिभ्योऽण् ( ४. १. ११२ ) गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । शिवादिः - ४. १६. पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । तिकादिः - ४ २२ शुभ्रादित्वाड्ढक । गाङ्गेयः । 1 " शुभ्रादिः -- ४. १७. अस्मिन्नेव ग्रन्थे इलो ० 1264. विश्रवसोऽपत्यं पुमान् रावणः । विश्रश्वशब्दात् शिवादित्वादणि विश्रवसो विश्रवणरवणाविति अन्तर्गणसूत्रेण विश्रवरशब्दस्य वृतिविषये रवणादेशे रावण इति सिद्धम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy