SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ বা সিলিলাখো अस्मिन्नेव ग्रन्थे लो० 374. काकुत्स्थो रामः ! शिवादित्वादण् । भट्टिकाव्ये-V.56. आप्यानः स्कन्धकण्ठांसं रूषितं सहितुं रणे। पोर्तुवन्तं दिशो बाणैः काकुत्स्थं भीरू कः क्षमः ॥ 1270 ।। ककुत्स्थस्यापत्यं काकुत्स्यः । शिवादिभ्योऽम् ! १११७ । ऋष्यन्धकटियारुण्यश्च । (४, १. ११४) ऋषयो मन्त्रद्रष्टारः । वासिष्ठः । वैश्वामित्रः। अन्धकेभ्यः, श्वाफरकः । वृष्णिभ्यः, वासुदेवः । आनिरुद्धः । शौरिः इति तु बाहादित्वादिञ् । कुरुभ्यः, नाकुलः । साहदेवः । रघुवंशे-V. 1. तमध्वरे विश्वजिति क्षितीशं निश्शेषविश्राणितकोशजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ।। 1271 ।। कौत्सः । अनेनाण् । इञोऽपवादः । १११८ । मातुरुत्संख्यासम्भद्रपूर्वायाः । (४. १. ११५) संख्यादिपूर्वस्य मातृशब्दस्योदादेशः स्यादण्प्रत्ययश्च । द्वैमातुरः । पाण्मातुरः। सांमातुरः । भाद्रमातुरः । संख्या इति किम् । सौमात्रः । शुभ्रादित्वाद्वैमात्रेयः । __ अस्मिन्नेव ग्रन्थे श्लो० 399. तिमृणां मातॄणामपत्यं पुमान् वैमातुरः । 'तद्धितार्थ' (सू. 728) इत्यादिना समासः । अनेनाण् । उकारश्च । माघे-II. 60. हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि । चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥ 1272 ॥ द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः । पूर्ववत् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy