SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिप्रकरणम् ३६५ उष्णशब्दे उत्तरपदे कवं का च वा स्यात् । कवोष्णम् कोष्णम् कदुष्णम् । अस्मिन्नव ग्रन्थे श्लो) 427. कवोष्णमीषदुष्पम् । कुशब्दस्य कवादेशः भट्टिकाव्ये--III. 11. अम्राक्षुरसं करुण रुवन्तो मुहुर्नुहुन्य॑श्वसिषुः कवोष्णम् । हा राम हा कष्टमिति ब्रुवन्तः पराड्मुखैस्ते न्यवृतन्मनोभिः ।। 1202 ॥ को कवादेशः। अस्मिन्नेव अन्थे श्लो० 882. कोष्णाम् ईषदुष्णम् । कोः कादेशः । रघुवंशे-I. 4. भुवं कोष्णेन कुण्डोनी मेध्येनावनृथादपि । प्रमावेणाभिवर्षन्ती वत्सालोकमवर्तिना ।। 1208 ।। कोष्णेन । किञ्चिदुष्णेन । नैषधे-III. 94. विज्ञापनीया न गिरो मदर्थाः क्रुधा कदुष्णे हृदि नैषधस्य । · पित्वेन दूने रसने सितापि तिक्तायते हंसकुलावतंस || 1204 ।। कदुष्णे ईषदुष्णे । चकारात्कोः कदादेशः । १०३४ । पृपोदरादीनि यथोपदिष्टम् । ( ६. ३. १०९.) पृषोदरप्रकाराणि शिष्टैयथोच्चारितानि तथैव साधूनि स्युः । पृषदुदरं पृषोदरम् । तलोपः । वारिवाहको बलाइकः । पूर्वपदस्य बः, उत्तरपदादेश्च लत्वम् । पृषोदरादिः
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy