SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ सर्वसमासान्त्रणा माघे--III. 81. लवङ्गमालाकलितावतंसा स्ते नालिकेरान्तरपः पिबन्तः । आस्वादिताद्रक्रमुकाः समुद्रा दभ्यागतस्य प्रतिपत्तिमाधुः ।। 107510 मालिकेरान्तरित्यव्ययम् । नालिकेरफलाभ्यन्तर इत्यर्थः । अप इति पृथक्पदम् । समासे तु समासान्तप्रसङ्गात् । अस्मिन्नेव ग्रन्थे श्लो० 166. विगता धूर यस्याः सा विधुरा । समासान्त अकारप्रत्ययः । माधे-~XVIII.T. सक्रीडन्ती तेजिताश्वस्य रागा दुद्यम्यारादनकायोस्थितस्य । रहोमाजामक्षः स्यन्दनानां हाहाकार प्राजितुः प्रत्यनन्दत् ।। 1076 } अझस्य धूरक्षथः । अनक्ष इति निषेधान्न समासान्तः । चम्पूभारते-~-II. 36. ग-ततस्ते वन्याशनधन्या धारितवसुधा सुधाशनाकृतयः प्रावृपमिव अकबलाक्रान्तां पातालभुवमिव प्रत्यहं वर्धमानबलिशोकामझराज्यसीमामिव सूर्यतनयानुकूलप्रतिष्ठां रविरथामधुरमिवैकचक्रां पुरीं क्रमादाक्रम्य कस्यचिद्गृहमेधिनो गृहमध्यमेत्य सुखमध्यवात्सुः ।। 1077 ॥ रविरथाक्षस्य धुः रविरथाक्षधूः ताम् । अस्मिन्नेव ग्रन्थे लो० 629. श्रुत्योः पन्थाः श्रुतिपथः । अकारप्रत्ययः । तत्पुरुषः। रघुवंशे-~IV. 38. स तीर्ला कपिशां सैन्यैर्वद्विरदसेतुभिः । उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ 1078 ॥ उस्कलै राजभिरादर्शितः पन्या यस्य सः उत्कलादर्शितपथः । बहुव्रीहिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy