SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ হেহীলাস্যালু अक्लीबेन सहोक्तौ क्लीव शिष्यते तच्च वा एकवस्यात् तलक्षण एक विशेषश्चेत् । शुक्लः पटः शुक्ला शाटी शुक्लं वस्त्रम् तदिदं शुरू, तानीनानि शुरु नि : भट्टिकाव्ये—II. 1. वनस्पतीनां सरसां नदीनां तेजस्विनी कान्तिभृतां दिशां च । निर्याय तस्याः स पुरः समन्ता च्छ्यिं दधानां शरदं ददर्श ।। 1067 ॥ वनस्पतीनां पुल्लिङ्गानां, सरसां नपुंसकलिङ्गाना, नदीनां स्त्रीलिङ्गाना, दिशां स्त्रीलिङ्गानां च तेजस्विनां कान्तिभृतां इति च विशेषगे । नपुसकैकशेषः । अस्मिन्नेव ग्रन्थे श्लो० 20. मृदुपाणितलाङ्गलिः। मृदुनी पाणितले अङ्गुलयश्च यस्याः सा तथोक्ता । नपुंसकैकशेषपूर्वपदो बहुव्रीहिः । किरातार्जुनीये-~-~XVI. ४. स्थागसंक्रीडितमश्वहेषा वृहन्ति मत्तद्विपबृहितानि । संघर्षयोगादिव मूच्छितानि हादं निगृह्णन्ति न दुन्दुभीनाम् ॥ 1068 ।। रथाङ्गसक्रीडितं नपुंसकलिङ्गम् । अवहेषा स्त्रीलिङ्गम् । बंहितानि नपुंसकलिङ्गम् । मूच्छितानि सन्ति । नपुंसकैकशेषः । अस्मिन्नेव ग्रन्थे श्लो० 1057. आहारः पुल्लिङ्गः । आयुधम् नपुंसकलिङ्गम् । संसेव्यमाने ते द्वे इति नपुंसकैकशेषः ।। ९३६ । पिता मात्रा । (१. २. ७०) मात्रा सहोक्तौ पिता वा शिप्यते । माता च पिता च पितरौ । मातापितरौ वा । अनर्घराघवे--IV. 30. नाराचैः कृतवीर्यनन्दनवधूबाप्पप्रियंभावुकै रुत्पाद्य क्षतजोदमर्णवमथ न्युप्तं पितृभ्यां पयः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy