SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २५४ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 877. विगतो धवो यासां ता विधवाः । न विद्यते नृपो यस्यां सा अनृपा । नमोऽस्तीति समासः । ८३१ । स्त्रियाः पुत्रदापितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणी प्रियादिषु । (६. ३. ३४) चित्रगुः । रूपवद्भायः । भट्टिकाव्ये - V. 13. युवजानिधनुष्पाणि विष्ठः खविचारिणः । रामो यज्ञद्रुहो हन्ति कालकल्पशिलीमुखः ॥ 892 ॥ युवतिर्जाया यस्य सः युवजानिः । स्त्रियाः पुंवद्रावात् स्त्रीप्रत्ययो निवर्तते । अस्मिन्नेव ग्रन्थे श्लो० 243. मान्यभक्तिरित्यत्र कथं पुंवद्भावः । अप्रियादिष्विति निषेधात् भक्तिशब्दस्य च प्रियादिषु पाठादिति । नैष दोषः । नपुंसकपूर्वपदत्वात् । यथाह ' दृढभक्तिरित्येवमादिषु स्त्रीपूर्वपदस्याविवक्षितत्वात्सिद्धमि' ति । भोजराजस्तु भज्यत इति भक्तिः । कर्मसाधनस्य प्रियादिपाठो यथा भवानीभक्तिरिति, न तु भजनम् इति भावसाधनस्य । अतोऽत्र स्त्रीपूर्वपदत्वेऽपि न दोष इत्याह । माघ--XIII, 42. मुदितैस्तदेति दितिजन्मनां रिपा वविनीय संभ्रमविकासिभक्तिभिः । उपसेदिवद्भिरुपदेष्टरीव तै वृते विनीतमविनीतशासिभिः ॥ 893 ।। विकासिभक्तिभिः। रघुवंशे-XII. 19. दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ 894॥ दृढभक्तिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy