SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् २५५ मेघसंदेशे--I. 36. पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृतारम्भे हर पशुपतेराईनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिभवान्या ।। 895 ८३३ । नतश्च । (५. ४. १५३) नद्युत्तरपदाहदन्तोत्तरपदाच्च बहुव्रीहे: कप् स्यात् । पुंवद्भावः । कुमारसंभवे--VI. 4. ते प्रभामण्डलैयौम द्योतयन्तस्तपोधनाः । सारुन्धतीकाः सपदि प्रादुरासन् पुरः प्रभोः ।। 898 ! अरुन्धत्या सह वर्तन्त इति सारुन्धतीकाः । माधे--XII. 4. शुक्लैः सतारैर्मुकुलीकृतस्थुलैः कुमुदतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदना विदूननारीकमभूत्सम तदा ।। 897 ॥ वियोगवेदनाविडूना नार्यो यस्मिन् तत्तथोक्तम् । रघुवंशे-XVI. 68. स नौ विमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु । स्कन्धावलमोद्धतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ 898॥ स्कन्धावलमा उद्धृतपद्मिनी यस्य स तथोक्तः । अस्मिन्नेव ग्रन्थे श्लो० 632. नद्येव माता यासां ता नदीमातृकाः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy