SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ कर्मधारयसमासप्रकरणम् २२५ माथे--III. 52. क्षितिप्रतिष्ठोऽपि मुखारविन्दै वधूजनश्चन्द्रमघश्वकार। अतीतनक्षत्रपथानि यन्त्र प्रासादशृङ्गाणि वृथाध्यरुक्षत् ॥ 802 ॥ अतीतानि नक्षत्रपथमतीतनक्षत्रपथानि । द्वितीयासमासः ! 'द्विगुप्राप्तापन्न' (वा. 1545. सू. 812) इत्यादिना परवल्लिङ्गताप्रतिषेधः इति मल्लिनाथः । अतिनक्षत्रपथानीति स्यात् । भस्मिन्नेव ग्रन्थे श्लो० 599. निष्कान्तो लङ्काया निर्लङ्क निरादय इत्यादिना गतिसमासः ! 'द्विगु' (वा. 1545. सू. 812 ) इत्यादिना परवल्लिङ्गताप्रतिधाद्विशेष्यलिङ्गता ! भट्टिकाव्ये-VI. 46. भुजौ चकृततुस्तस्य निस्त्रिंशाभ्यां रघूत्तमौ । स छिन्नबाहुरपतद्विह्वलो हलयन्भुवम् ।। 803 ॥ त्रिंशतोऽङ्गुलिभ्यो निष्क्रान्तौ निस्त्रिंशौ खड्गौ । डप्रकरणे सङ्ख्यायास्तत्पुरुषस्योपसङ्ख्यान निस्त्रिंशाद्यर्थम् इति डप्रत्यये टिलोपः । मेघसंदेशे-T. 23. वीचिक्षोभस्तन्तिविहगश्रेणिकाञ्चीगुणायाः ___संसर्पन्त्याः स्खलितसुभग दर्शितावर्तनामः । निविन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य स्त्रीणामाद्य प्रणयवचन विभ्रमो हि प्रियेषु ।। 304 ।। निष्क्रान्ताया विन्ध्यान्निविन्ध्याया नद्याः । निरादय इति समासः । 'द्विगु' (वा. 1545. सू. 812) इति परवल्लिङ्गताप्रतिषेधः । ७८१ । तत्रोपपदं सप्तमीस्थम् । (३. १. ९२) कुम्भादिवाचक पदमुपपदसंज्ञं स्यात् । तस्मिंश्च सत्येव वक्ष्यमाणः प्रत्ययः स्यात् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy