SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या भट्टिकाव्ये--V. 108 प्रलठितमवनौ विलोक्य कृतं दशबदनः खचरोत्तमं प्रहृष्यन् । स्थवरमधिरुह्य भीमधुर्य स्वपुरमगात्परिगृह्य रामकान्ताम् ॥ 706 ।। खचरागामुत्तम इति षष्ठीसमासस्य प्रतिषेधात् स्वचरेषूतमः खचरोत्तमः, तम् । माघ----I. 31. इति ब्रवन्त तमुवाच स व्रती नवाच्यमित्य पुरुषोत्तम त्वया । त्वमेव साक्षात्करणीय इत्यतः . किमस्ति कार्य गुरु योगिनामपि || 707 ।। पुरुषेषुत्तमः पुरुषोत्तमः। किरातार्जुनीये-VII. 20. माहेन्द्र नगमभितः करेणुवर्या पर्यन्तस्थितजलदा दिवः पततः । सादृश्यं निलयननिष्प्रकम्पपक्ष राजग्मुर्जलनिधिशायिभिनगेन्द्रः ॥ 708 ।। करेणुषु वर्याः करेणुवर्याः । अस्मिन्नेव ग्रन्थे श्लो० 602. वदतां निर्धारणे षष्ठी । वरः श्रेष्ठः । अत्र समासो न । अस्मिन्नेव ग्रन्थे श्लो० 28. सर्वतेजःसु । निर्धारणे सप्तमी । ज्योतिष्टमाम् । अत्र समास: स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 601. स्त्रीषु मध्ये दर्शनीयतमाः । समासः स्यात् । ७०५ । पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ( २. २. ११)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy