SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासप्रकरणम १९१ पूरणाद्ययैः सदादिभिश्व षष्ठी न समस्यते । पूरणे । सतां षष्ठः । गुणे, काकस्य कार्यम् । अनित्योऽयं गुणेन निषेधः । तेन अर्थगौरवम् बुद्धिमान्द्यम् इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । सुहितार्थे करणे षष्ठीविधायक प्रमाणं नास्ति । पूरण इत्येतत्सूत्रेण षष्ठीसमासनिषेधात् करणे षष्टयनुमीयते । फलानां सुहितः । करणे तृतीयासमासस्तु स्यादेव । सत्, द्विजस्य कुर्वन्कुर्वाणो वा । अव्यय, ब्राह्मणस्य कृत्वा । कृदव्ययमेव गृह्यते । तेन तदुपरीत्यादि सिद्धम् । तव्य, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेदः । समानाधिकरणे, तक्षकस्य सर्पस्य । रघुवंशे - V. 7. निर्वत्र्त्यते यैर्नियमाभिषेको येभ्यो निबापाञ्जलयः पितृणाम् । तान्युञ्छषष्टाङ्कित सैकतानि शिवानि वस्तीर्थजलानि कच्चित् ॥ 709 ॥ उम्छानां षष्ठैः षष्ठभागैः उच्छषष्ठैः । ' षष्ठाष्टमाभ्यां न च' (सू. 1996 ) इति भागार्थे चादन् प्रत्ययः । अत एवापूरणार्थत्वादत्र षष्ठीसमासप्रतिषेधो न । भट्टिकाव्ये – I. 6. निर्माणदक्षस्य समीहितेषु सीमेव पद्मासन कौशलस्य | ऊर्ध्वस्फुरद्रलगभस्तिभिर्या स्थिता विहस्येव पुरं मघोनः ॥ 710 ॥ पद्मासनकौशलस्येत्यत्र षष्ठीसमासप्रतिवेधो न । शुक्तः पटः, पटस्य शुक्ल इति गुणे गुणिनि च दृष्टानां शुक्लादिशब्दानामेव निषेधात् । किरातार्जुनीये – II. 27. स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् । रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं कचित् ॥ 711 ॥ अथगौरवमिति समासेऽपि न दोषः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy