SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ तत्पुरुषसमासपकरणम् अस्मिन्नेव ग्रन्थे श्लो० 512. कुसुमानां , कृद्योगे कर्मणि षष्ठी , उत्किरन्तीत्युत्किराः । कुमुमोत्किरास्तैः । भट्टिकाव्ये -V. 93. मा स्म भूहिणी भीरु गन्तुमुत्साहिनी भव । उद्भासिनी च भूत्वा नो वक्षःसमर्दिनी भव ।। 702 ॥ वक्षासमर्दिनी । षष्ठीसमासः । नन्दिग्रहीत्यादे: अनुपपदाधिकारात् । भट्टिकाव्ये-- VII. 82. देहव्रश्चनतुण्डाग्रं तं विलोक्याशुभाकरम् । पापगोचरमात्मानमशोचन वानरा मुहुः ॥ 703 ।। वृश्चयते भिद्यतेऽनेनेति व्रश्चनम् । करणे ल्युट् । देहस्य व्रश्चनं देहत्रश्चनम् । अस्मिन्नेव ग्रन्थे श्लो० 507. कपीनां नन्दनः कपिनन्दनः । नन्द्यादित्वात् ल्युः। भट्टिकाव्ये---V. 6. दण्डकामध्यवातां यौ वीर रक्षःप्रकाण्डको । नृभ्यां संख्येऽकृषातां तो सभृत्यौ भूमिवर्धनौ ॥ 704 ॥ वर्धयत इति वर्धनौ । त्युः । भूमेवधनौ भूमिवधनौं । भट्टिकाव्ये-V. 45. शीर्षच्छेद्यमतोऽहं त्वां करोमि क्षितिवधनम् । कारयिष्यामि वा कृत्यं निजिघृक्षुर्वनौकसौ ।। 705 ॥ क्षितिवर्धनमिति कृद्योगषष्ठीसमासः । अस्मिन्नेव ग्रन्थे श्लो० 206. स्त्रीपुंसभीषणे । ७०४ । न निर्धारणे । (२. २. १०) 'यश्च निर्धारणम् ' (सू. 638 ) इति षष्ठी न समस्यते । सप्तमीसमासः साधुः । . .
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy