SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १८६ पाणिनिसूत्रव्याख्या विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ 694 ।। विविधेभ्यः कामेभ्योऽवगाहाद्यपभोगेभ्यो हिता अनुकूला विविधकामहिताः इति समासः । 'गत्यर्थकर्मणि' (सू. 585) इति द्वितीयाचतुर्यो । चतुर्थीति योगविभागात्समासः। अस्मिन्नेव ग्रन्थे श्लो० 397. वनाय प्रयाणम् वनप्रयाणम् । भट्टिकाव्ये—I. 1. अभून्नपो विबुधसख: परन्तपः श्रुतान्वितो दशरथ इत्युदाहृतः । गुणैर्वर भुवनहितच्छलेन यं सनातनः पितरमुपागमत्वयम् ॥ 695 ॥ भुवनाय हितं भुवनहितम् । ६९९ । पंचमी भयेन (२.१. ३७) भीत्रार्थानां (सू. 688 ) इति या पञ्चमी सा समस्यते । चोराद्भय चोरभयम् । वा । भयभीतभीतिभीभिरिति वाच्यम् । ( 1275.) वृकाद्भीतो वृकभीतः । अस्मिन्नेव ग्रन्थे श्लो० 179. अलेभयम् अलिभयम् । अस्मिन्नेव ग्रन्थे श्लो० 182. वारिधरारवेभ्यो भीरवो वारिधरारवभीरवः । रघुवंशे--XIV. 23. तेनार्थिवान् लोभपराङ्मुखेन तेन न्नता विघ्नभयं क्रियावान् । तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री ।। 696 ॥ विन्नेभ्यो भयं विघ्नभयम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy