SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ • तत्पुरुषसमासप्रकरणम् भट्टिकाव्ये--V. 14. मांसान्योष्ठावलोप्यानि सावनीयानि देवताः । अश्नन्ति रामाद्रक्षांसि बिभ्यत्यश्नुवते दिशः ।। 692 ।। ओष्ठाभ्यामवलोप्तुमत्तुमर्हाणि ओष्ठावलोप्यानि । करणे तृतीयासमासः । अस्मिन्नेव ग्रन्थे श्लो० 643. करेण प्रचेयानि करप्रचेयानि । करणे तृतीयासमासः। ६९६ । अनेन व्यजनम् । (२. १. ३४) दन्ना ओदनः दध्योदनः । ६९७ । भक्ष्येण मिश्रीकरणम् । ( २. १. ३५) गुडेन धाना गुडधानाः । ६९८ । चतुर्थी तदर्थार्थवलिहितसुखरक्षितैः । (२. १. ३६) चतुर्थ्यन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । वा० । अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम् । (1278 - 1274) द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः। द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् । नैषधे-I. 137. मदर्थसन्देशमृणालमन्थरः प्रियः कियद्र इति त्योदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये स कीदृग्भविता तव क्षणः ॥ 693 ।। मामिमे मदर्थे । किरातार्जुनीये -V.7. दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy