SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् पटीयसी - ईयसुनि ङीप् । चम्पूभारते -- V. 81. तत्रान्तरे ज्वलितवर्णवपुः कदाचिदङ्गेषु शब्द इव कर्णमवाप्य रात्रौ । भासां पतिः कृतनमस्करणाय तस्मै प्रेम्णाशिषः प्रणिजगाद यवीयसीं गाम् ॥ 8 ॥ यवीयसी - पूर्ववत् । क्तवतुप्रत्ययः । माघे - XII, 58. स व्याप्तवत्या परितोऽपथान्यपि स्वसेनया सर्वपथीनया तथा । अभिरुचिततुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ 9 ॥ व्याप्तवती -- तवतौ ङीप् । सुः । रघुवंशे -- II. 6. स्थितः स्थितामुच्चलितः प्रयातां निषेदुषीमा सनबन्धधीरः । जलाभिलाषी जलमाददानां छायेव तां भूपतिरन्वगच्छत् ॥ 10 ॥ निषेदुषी - कसुप्रत्ययान्तात् ङीप् । ड्मतुप् । भट्टिकाव्ये – II. 4. -- निशातुषारैर्नयनाम्बु कल्पैः पत्रान्तपर्यागलदच्छविन्दुः । उपारुरोदेव नदत्पतनः कुमुद्वतीं तीरतरुर्दिनादौ ॥ 11 ॥ कुमुद्वती - ङीप् । मतुप् । चम्पूभारते - I. 48. अपि कुधामावसतेरमुष्मान्मत्वा गुरुत्वं वरमन्त्रलाभे । अपुष्पवत्यामपि मे दशायामामोदभारोऽधिकमाविरासीत् ॥ 12 ॥ अपुष्पवती - ङीप् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy