SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ কাহালু १३७ जलदैरभितः स्फुरद्भिरुच्चै विदधे केतनतेव धूमकेतोः ॥ 549 ॥ सवितुर्मरीचीन् परिभावुकैः तिरस्कारकैः । उकञ् । अस्मिन्नेव ग्रन्थे श्लो० 140. कौवेरदिग्भापमपास्य । अव्ययप्रयोगात्प्रतिषेधः । आगस्त्य मार्गमवतीर्णः । निष्ठाप्रयोगात्प्रतिषेधः । माधे--XIV. 76. गच्छतापि गगनाप्रमुच्चकै___ यस्य भूधरगरीयसाधिणा। क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुवन्धताम् ॥ 550 !! गगनाग्रं गच्छता। शतृ । बलि: वैरोचनिः स्वर्गभर्तुरिन्द्रस्य । सुखेन बध्यत इति सुबन्धः तस्य भावम्तत्ता तां अगमत् । खल्प्रत्ययः । कृद्योगलक्षणाया एव षष्ठया निषेधात्स्वर्गभर्तुरिति शेषे षष्ठी। रघुवंशे-I. 72. तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि । इक्ष्वाकूणां दुरापेऽर्थे त्वदधीला हि सिद्धयः ॥ 551 ॥ इक्ष्वाकूणां दुरापे । खल् । शेषे षष्ठी । रघुवंशे-XVI. 81. त्रैलोक्यनाथप्रभवं प्रभावा स्कुश द्विषामङ्कुशमस्त्रविद्वान् । मानोन्नतेनाप्यभिवन्द्य मून मूर्धाभिषिक्तं कुमुदो बभाषे ॥ 552 ॥ . अस्त्रं विद्वान् अस्त्रविद्वान् । षष्ठीनिषेधाद्वितीया । 'द्वितीयाश्रित' (सू. 686) इत्यत्र गम्यादीनामुपसंख्यानात् , द्वितीयेति योगविभागाद्वा समासः । चम्पूरामायणे-II. 1. गच्छता दशरथेन निर्वृति भूभुजामसुलभां भुजाबलात् । 18
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy