SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३८ पाणिनिसूत्रव्याख्या मातुलस्य नगरे युधाजितः स्थापितौ भरतलक्ष्मणानुजौ ॥ 558 निर्वतिं गच्छता । शतृ । भूभुजामसुलभाम् । खल । शेषे षष्ठी । भट्टिकाव्ये~-VII. 38. सदोद्गारसुगन्धीनां फलानामलमाशिताः । उत्कारेषु च धान्यानामनभीष्टपरिग्रहाः ।। 554 ।। फलानामाशिताः । आशितशब्दस्य सुहितार्थत्वात् 'पूरण ' ( सू. 705 ) इत्यादिना षष्ठीसमासप्रतिषेधः । एतस्मादेव ज्ञापकाकरणे षष्ठी इति मल्लिनाथः । फलानामाशितः फलान्याशितः । माषाणामश्नीयादितिवत् शेषे षष्ठी । कृद्योगषष्ठया: प्रतिषेधः। अस्मिन्नेव ग्रन्थे श्लो० 292. अग्रजस्यानुकुर्वन्तः । शेषे षष्ठी । नैषधे-II. 29. सहशी तव शूर सा पर जलदुर्गस्थमृणालजिद्भुजा। अपि मित्रजुषां सरोरुहां गृहयालुः करलीलया श्रियः ।। 555 || सरोरुहां श्रियः करलीलया गृहयालुः । आलुच् । चम्पूभारते-V. 29. प्रार्थमानपददर्शनं चिरा त्पश्यतः पथि भवन्तमग्रजम् । विस्मयाम्बुनिधिरेष मेऽधुना वीरवयं भवतापि दुस्तरः ॥ 556 ॥ खल् । भवतापि दुस्तरः । भवतापीति कर्तरि तृतीया । किरातार्जुनीये--II. 2. यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy