SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२४ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 470. रघूतमः एकत्साह्नः। कालवाचिन्यधिकरणार्थे षष्ठी। शतकृत्वः शतवारं तव स्मरति । नैषधे -VI. 41. पुरः स्थितस्य कचिदस्य भूषा रत्नेषु नार्यः प्रतिबिम्बितानि । व्योमन्यदृश्येषु निजान्यपश्यन् विस्मित्य विस्मित्य सहस्त्रकृत्वः ।। 508 ।। नार्योऽदृश्येषु नलस्य भूषारलेषु निजप्रतिबिम्बितानि व्योमनि, अकालवाचित्वासप्तमी, सहस्रकृत्वोऽपश्यन् । चम्पूभारते- II. 42. मा भून्नाशो युगपदिति नो भीरुभिर्जातु पौरैः पूर्लब्ध्वावसरमसकृत्प्रार्थनाभिः प्रक्कृप्तम् । एकैकस्मिन्नहनि वितरत्येकमेकं पुमांस नित्यं तस्मै बलिमिह जनस्तुङ्गमन्नस्य राशिम् ।। 504 ।। कृत्वोऽर्थप्रयोगाभावादहनीति सप्तमी । 'संख्याया' (सू. 2085) इति कृत्वसुच् । 'द्वित्रि' (सू. 2086) इति सुच् । 'कालाध्वनोः' (सू. 558) इति द्वितीया । अस्मिन्नेव ग्रन्थे लो० 218. क्षणमूचे । उक्तिक्रियया क्षणस्य कालस्य साकल्येन सम्बन्धात् क्षगमिति द्वितीया । - ६२३ । कर्तृकर्मणोः कृति । (२, ३. ६५) कृद्योगे कर्तरि कर्मणि च षष्ठी स्यात् । कृष्णस्य कर्तुः कृतिः । जगतः कर्मणः कर्ता कृष्णः । 'कृयोगा च' (वा. 1317. सू . 703 ) इति समासः । अस्मिन्नेव ग्रन्थे श्लो० 460. पुंसाम् । कर्तरि षष्ठी । अगमम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy