SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् भट्टिकाव्ये -- VIII. 124. तवोपशायिका यावद्राक्षस्यश्चेतयन्ति न । प्रतिसन्दिश्यतां तावद्भर्तुः शार्ङ्गस्य मैथिलि || 505 || तव शार्ङ्गस्येति यथाक्रमं षष्ठी । १२५ भट्टिकाव्ये -- VII. 69. ततो जलधिगम्भीरान्वानरान्प्रत्युवाच सा । इयं दानवराजस्य पूः सृष्टिर्विश्वकर्मणः ॥ 506 | विश्वकर्मणः । कर्तरि षष्ठी । सृज्यत इति सृष्टिः । कर्मणि स्त्रियां क्तिन् । भट्टिकाव्ये - VI. 78. सख्यस्य तव सुग्रीव कारकः कपिनन्दनः । द्रुतं द्रष्टासि मैथिल्याः सेवमुक्ता तिरोऽभवत् || 507 || तव सख्यस्य । कर्मणि षष्ठी | कारकः । कपीनाम् । कर्मणि षष्ठी । नन्दनः कपिनन्दन इति समासः । मैथिल्याः । कर्मणि षष्ठी । द्रष्टा । 1 1 अस्मिन्नेव ग्रन्थे श्लो० 260. तस्य कार्तवीर्यस्य । कर्मणि षष्ठी । हन्तारम् । अस्मिन्नेव ग्रन्थे श्लो० 32. दिशामीशिता । ' अधीगर्थ ' ( सू. 618) इत्यादिना कर्मणि शेषे वा षष्ठी । चम्पूरामायणे – II. 80. ग — विकर्तनकुलस्य यदनुकूलं गुणगणस्य यदनुगुणं यशोरूपस्य यदनुरूपं समाचारस्य यत्समुचित प्राचीनमाम्यस्य यद्योग्यं लोकगर्हणाय यदन श्रुतस्य वा यत्सदृशं तादृशमाशयं प्रकाशयन्ती भरतोपनं विज्ञापना || 508 || उपज्ञायत इत्युपज्ञा । ' आश्चोपसर्गे' ( सू. 8288 ) इति कर्मण्यड् । भरतस्य । कुल्लक्षणा कर्तरि षष्ठी । भरतोपज्ञम् । ' उपज्ञोपक्रम ' ( सू. 824 ) इति नपुंसकत्वम् । अस्मिन्नेव ग्रन्थे इलो० 871. भूतानामनभिद्रुहः | 'क्रुष ' ( सू. 576 ) इति कर्मसंज्ञायां भूतानामिति कर्मणि षष्ठी ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy