SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १२३ माधे-XIX, 103. उद्धतान् द्विषतस्तस्य निम्नतो द्वितय पपुः । पानार्थे रुधिरं घातौ रक्षार्थे भुवनं शराः ॥ 501 1 उद्धतान्द्विषतः निघ्नतः। चम्पूरामायणे--VI. 37. · गदेव कपिबलमखिलकुलाचलनिलयमनिलतनयेनाहूत पुरुहूत इव पुलोमजाप्. हारिणमनुादं रावणं रणे निहनिष्यसीति ।। 502 !! ६१८ । व्यवहपणोः समर्थयोः । ( २. ३. ५७) शेषे कर्मणि षष्ठी स्यात् । अस्मिन्नेव ग्रन्थे श्लो० 493. रावणः प्राणानामपणिष्ट । प्राणान्विक्रीतवानित्यर्थः । पणेर्व्यवहारार्थालुङि तङ् । अस्तुत्यर्थत्वाद् ‘गुपूधूप' (सू. 2303.) इत्यादिना नायप्रत्ययः । ६१९ । दिवस्तदर्थस्य । (२. ३. ५८) यतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति। ____ अस्मिन्नेव ग्रन्थे श्लो° 470. रावणे बन्धुभोगानामदेवीत् । तानपि विक्रीतवानित्यर्थः । ६२० । विभाषोपसर्गे । (२. ३. ५९) पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति । अस्मिन्नेव ग्रन्थे श्लो० 470. आत्मसम्पदं स्वलक्ष्मी प्रादेवीत् विक्रीतवान् । वैकल्पिकी द्वितीया। ६२२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । (२. ३. ६४) कृत्वोऽर्थानां प्रयोगे कालवाचिन्वधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽहो भोजनम् । अर्थग्रहणात्सुचप्रयोगेऽपि द्विरहो भोजनम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy