SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२२ पाणिनिसूत्रव्याख्या किरातार्जुनीये-XIV. 60. तपोबलेनैष विधाय भूयसी स्तनूरदृश्याः स्विदिषून्निरस्यति । अमुष्य मायाविहितं निहन्ति नः प्रतीपमागत्य किमु स्वमायुधम् ।। 496 ।। नोऽस्माकं निहन्ति किमु । शेषे कर्मणि षष्ठी । नोऽस्मानिहन्ति किम् । माघे-I. 40. प्रवृत्त एव स्वयमुज्झितश्रमः ___ क्रमेण पेष्टुं भुवनद्विषामसि । तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ 497 || भुवनद्विषां पेष्टुम् । तान्हन्तुमित्यर्थः । शेषत्वाविवक्षया द्वितीया वा। भट्टिकाव्ये-II. 34. अद्मो द्विजान्देवयजीनिहन्म: कुर्मः पुरं प्रेतनराधिवासम् । धर्मो ह्ययं दाशरथे निजो नो नैवाध्यकारिष्महि वेदवृत्ते ॥ 498 ॥ भट्टिकाव्ये—VI. 102. प्रियंवदोऽपि नैवाहं ब्रुवे मिथ्या परन्तप । सख्या तेन दशग्रीवं निहन्तासि द्विषन्तपम् ।। 499 ।। दशग्रीवं निहन्तासि । पूर्ववद् द्वितीया । भट्टिकाव्ये-VIII. 20. योऽपचक्रे वनारसीतामधिचक्रे नयं हरिः । विकुर्वाणः स्वरानद्य बलं तस्य निहन्म्यहम् ।। 500 ॥ द्वितीया ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy