SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचनाये शान्ति न्म शम्नमहिना महनीयवृति तो भयमौलिमनिरञ्जिनपदपीटः । मन्यं धरनिनिनिर्मुवि बन्य कीर्तिः प्रत्याधिभिः सह दिगतमवाप शुभ्रा ।। २१ ॥ यश्च किल संक्रन्दन इवानमिनोगमः. अन्तक इव महिपीसमधिष्ठिनः, वरण इवाशा-नरक्षणः. पवन इब पलामोडचिर:, हर इव महासेनानुयातः, नारायण इव वराहवपुष्कलोदयोद्धतधरणोवलयः, सरोजसंभव इन सकलसारम्वनामरसभानुभूतिः भद्रगुणोऽध्य नागो, विधुधपति-पि कुल नः, सुवर्णधरोऽप्यनादित्यागः. लग्नार्थपोपकवचनोऽपि नरसार्थपोपकवचनः, आगमाल्याश्रितोऽपि नागमाल्याश्रितः । अथ नगरीवर्णनानन्तरं राजानं वर्गयित्माह-शास्ति स्मेति-शस्तो महिमा यस्य स प्रशस्तमाहायोपेतः महनीया श्लावीया वृत्तियवहनियन्य सः, भूपानां पार्थिवानां मौलिमणिभिर्मुकुटरन्नरनितोऽणीकृतः पादपीटश्चरणासनं यस्य सः, सन्यं धरश्चासौ क्षितिपतिश्चेति सायंधरक्षितिपतिः, सन्यन्धराभिधानो नृपः, तां राजपुरीम्, शास्ति स्म पालयति स्म, यस्य नृपस्य शुभ्रा धवला, कीर्तिः समज्ञा, 'यशः कीर्ति: नमज्ञा च' इत्यमरः । सुवि पृथिव्याम, प्रत्यर्थिभिररातिभिः सह सार्थम्, दिगन्तं काष्टान्तम्, अवाप प्राया । विगताशतिरवदातकार्तिसम्पन्नश्चामावामीदिति भावः । सहोक्तिरलंकारः ॥ २१ ॥ ___ अथ तस्य वैशिष्ट्यं दर्शयनुमाह-यश्चति-यश्च सत्यन्धरः, किलेति वाक्यालङ्कार ऐतिह्ये वा, संक्रन्दन इव पुरन्दर इव, आनन्डिनः समाहादितः सुमनसां विदुपां गणः समूहो येन, पुरन्दरपक्षे सुमनोगणो देवसमूहः, अन्तक इव यम इव महिप्या कृताभिषेकया पट्टराच्या समधिष्टितो युक्तः, यमपक्षे स्ववाहनभूतमहिषपत्नीसहितः, वरण इब प्रचेता इव, आ समन्ताच्छान्तं निरूपद्रवं रक्षणं यस्य सः, वरुणपने आशान्तस्य पश्चिमकाष्टान्तस्य रक्षणं यस्मान्लः, पवन इव समीर इव. पद्माया लत्या आमोदेन हण रुचिरो मनोहरः, पवनपने पद्मानां कमलानामामोदेन सौरभातिशयेन रुचिरः सुभगः, हर इव शिव इव, महासेनया विशालवृतनयाऽनुयातोऽनुगतः, शिवपन्ने महासेनेन कार्तिकेयाभिधानेन स्वपुत्रेणानुयातोऽनुगतः, नारायण इव विष्णुरिव, बराहवेत्कृट्युद्धेनु य उदयो विजयस्तेनोदतं समुन्नमितं धरणीवलयं महीमण्डलं येन मः, विष्णुपक्षे वराहस्य सूकरस्य वयुष्कलया शरीरकलया य उदयोऽवतारस्तेनोद्धतं रसातलान्समुन्नीतं धरणीवलयं भूमण्डलं येन सः, सरोजसंभव इव वेधा इव कलाभिश्चातुरीभिः सहितः सकलः, सारो बलं स्वं धनं यस्य सः सारस्वः, तामरलस्य कमलस्येव आया दीरनुभूतिरुपभोगो यस्य सः, सकलश्चामौ सारस्वश्चेति सकलसारस्वः सकलसारस्वश्चासौ तामरसभानुभूतिश्चेति सकलसारस्वतामरसभानुभूतिः, अथवा सकलाः ममदा ये सारस्वताः सरस्वतीभक्ता पण्डितास्तेषां यामरसभा स्थायिसमितिस्तस्यामनुभूतिः प्रभावो यस्य सः, वेधःपक्षे सकलाः सचातुरीकाः समग्रा वा येऽमरा देवा अथवा सारस्वतामरा लौकान्तिकदेवविशेषास्तेषां सभायामनुभूतिः प्रभावो यस्य सः, अत्र सर्वत्र श्लिष्टोपमालङ्कारः । भद्रगुणोऽपि दिग्गजविशेषगुणेऽपि अनागोऽगजः पक्षे भद्रगुणयुक्तोप्यपराधशून्यः, आगश्शब्दस्यादन्तवमपि क्वचित्प्रयुज्यते, विबुधपतिरपीन्द्रोऽपि को पृथिव्यां लीनः स्थितः पक्षे विबुधानां विदुपां पतिः स्वामी विद्वच्छृष्टोऽपि सन् कुलीनोऽभित्रातः, सुवर्णवरोऽपि सुमेरुरपि, अनादित्यागोऽसूर्यपर्वतः सूर्यागमनरहितशेल इति यावत् पने सुवर्ण रोऽपि सुन्दररूपधारकोऽपि, अनादिरादिरहितस्त्यागो दानं यस्य सः, रसेनोपलक्षितोऽों रसार्थस्तस्य पोपकाणि समर्थकानि वचनानि यस्य तथाभूतोऽपि सन् , न तथाभूत इति नरसायोपकवचनः पक्षे नरागां मनुजानां सार्थस्य समूहस्य पोषकाणि वचनानि यस्य सः,आगमस्याप्तनिबन्धनशास्त्रस्याल्या पङ्क्त्याऽऽश्रितोऽपि सेवितोऽपि तथा न भवतीति नागमाल्याश्रितः पक्षे नागानां गजानां माल्येन पङ्क्न्याऽऽश्रितः सथिनः सहित इति यावत् । अत्र सर्वत्र विरोधाभासालङ्कारः । अस्तीति शेपः ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy