SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ दशमो लम्भः यदन्तिकरोद्यता जलकणा व्योनि स्फुरत्तारका कारा रेजुरभूच्च नाकदतीवक्त्रं निशानायकः । धूलीभिः पिहिते च चण्डकिरणे संग्रामलीला बभौ निर्दोषापि विभावरीव सततं क्रीडद्रथाङ्गापि च ॥ ४५ ॥ यावन्नाक्षिपति क्षणेन करिणो वक्त्रच्छदं विस्तृतं हत्यारोहवरः प्रतिद्विपगतो वीरः शरैस्तावता । शुusi तस्य मदं च लोपमनयत्कोपेन सोऽप्युद्धतः भल्लैः छिन्नेनैव करेण तं प्रतिभटं मूर्च्छास्पदं द्राव्यधात् ॥ ४६ ॥ प्रतिद्विरदमल्लधनुर्विमुक्तैः कुम्भेषु मग्नशिखरैर्व्यलस गजेन्द्राः । आरावहीनवदनैः शिखिनां समूहै रारूढतुङ्गशिखरा इव शैलवर्गाः ॥ ४७ ॥ १८७ इह खलु, कौचन मत्तदन्तावलौ क्रोधतरलौ समीककलाकुशलौ परस्परदण्डसंघट्टनजनितगम्भीरारावेण बृंहितभरेण च गगनतलं पूरयन्तौ, गण्डतलविसृत्वरमदधारासौरभप्रचुरकर्णतालविगलन्समीरैराजिरङ्गतले मूच्छितान् भटान् प्रबोधयन्तौ, भुग्नवालौ, सक्थिजवघटित रदविन्यासेन वसुन्धरां मतङ्गजः, मदेभं मत्तमतङ्गजम्, रथस्थः स्यन्दनस्थः, रथस्थं स्यन्दनस्थम्, क्षणेन शीघ्रम् इयाय प्राप । भुजङ्गप्रयातच्छन्दः ॥ ४४ ॥ दृप्यद्दन्तिकरोद्यता इति-हृप्यतां समदानां दन्तिनां करिणां करेभ्यः शुण्डाभ्य उद्यता उत्पतिताः, जलकणाः सलिलसीकराः, व्योम्नि गगने, स्फुरत्तारकाकारा देदीप्यमाननक्षत्रसंनिभाः, रेजुः शुशुभिरे, नाक सुदतीवक्त्रं देवीवदनम्, निशानायकश्चन्द्रमाः, अभूच्च बभूव च । धूलीभिः परागैः, चण्डकिरणे सूर्ये पिहिते च समाच्छादिते च सति, संग्रामलीला समरक्रीडा, निर्दोषापि रात्रिरहिताऽपि सततं सर्वदा क्रीडन्तो रथाङ्गाश्चक्रवाका यस्यां तथाभूता सत्यपि च, विभावरीव रात्रिरिव, बभौ शुशुभे, पक्षे निर्दोषा पङ्ककण्टकादिदोषरहिता, क्रीडन्ति संभ्रमन्ति रथाङ्गानि चक्राणि यस्यां तथेति च ॥ ४५ ॥ यावन्नाक्षिपतीति — यावत् यावत्कालपर्यन्तम् हस्त्यारोहवरो गजाधिष्ठातृवरः, क्षणेन सत्त्वरम्, विस्तृतं विततम्, करिणो गजस्य वक्त्रच्छदं मुखावरणम्, नाक्षिपति न दूरीकरोति तावता कालेन प्रतिद्विपगतः प्रतिगजस्थितः, वीरः शूरः शरैः सायकैः, तस्य करिणः, शुण्डां करम्, मदं च दानञ्च गर्व वा, लोपं विनाशम्, अनयत् प्रापयामास, कोपेन क्रोधेन, उद्धतः समुद्दण्डः, सोऽपि छिन्नशुण्डः शुण्डालोsपि, छिन्नेनैव कृत्तेनैव, करेण शुण्डया, तं प्रतिभटं प्रतिवीरम्, द्राग् झटिति, मूर्च्छास्पदं चैतन्यातीतम्, व्यधाच्चकार ॥४६॥ भल्लैरिति — प्रतिद्विरदमल्लानां विपक्षगजस्थितशूराणां धनुर्भ्यः कोदण्डेभ्यो विमुक्तास्त्यक्तास्तैः Fry austroy नं निचितं शिखरं मुखं येषां तैः भल्लः प्रासैः गजेन्द्रा हस्तिप्रमुखाः आरावहीनं केकारहितं वदनं मुखं येषां तैः शिखिनां केकिनां समूहः कलापैः, आरूढानि समधिष्ठितानि तुङ्गशिखराणि समुच्चङ्गाणि येषां तथाभूताः शैलवर्गा इव पर्वतसमूहा इव व्यलसन् शुशुभिरे । उपमा | वसन्ततिलकावृत्तम् ॥४७॥ इह खलु कौचनेति - इह समराङ्गणे, खलु निश्चयेन, क्रोधेन कोपेन तरलौ चपलाविति क्रोधतरलौ, समीककलायां समरवैदग्ध्यां कुशलौ निपुणौ, कौचन कावपि, मत्तदन्तावलौ मत्तगजी, परस्परमन्योऽन्यं दन्तसंघट्टनेन रदनाघातेन जनितः समुत्पादितो यो गम्भीरारावो गम्भीरशब्दस्तेन, बृंहितभरेण च गर्जितसमूहेन च, गगनतलं नभस्तलम्, पूरयन्तौ सम्भरन्तौ गण्डतलाभ्यां कटप्रदेशाभ्यां विसृत्वराः प्रसरणशीला या मदधारा दानसन्ततयस्तासां सौरभेण सौगन्ध्येन प्रचुराः प्रपूर्णाः, तथाभूताः कर्णतालविगलन्तश्च श्रवणव्यजननिःसरन्तश्च ये समीराः पवनास्तैः, आजिरङ्गतले समररङ्गभूमौ मूच्छ्रितान् सम्प्राप्तमोहान्,
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy