SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १८८ जीवन्धरचम्पूकाव्ये स्थपुटितामादधानौ, पूर्वपश्चिमसमीरसमीरितो सजलजलदाविवापतन्तौ, सकललेखजनतनूरुहसौख्यशायनिकं भयानकं समीकमातेनतुः। आयोधनं विदधतोर्गजयोः कयोश्चिद् दन्तप्रघट्टजनिताग्निकणाः स्फुरन्तः । हैमप्रदीप्रवलयावलिखण्डतुल्या माञ्जिष्ठचामरगताः सुभटैर्नु दृष्टाः ।। ४८ ॥ कश्चिद्गजः प्रतिभटं चरणे गृहीत्वा सम्भ्रामयन्दिवि रुषा परुषप्रचारः । चिक्षेप दूरतरमूर्ध्वमयं च मानी द्रागेत्य कुम्भयुगलीमसिना बिभेद ।। ४६ ।। इभोक्तानां नवमौक्तिकानां वर्षेण संख्ये निरवग्रहेण । मुक्तामयत्वं दधती च रङ्गस्थली गदाढ्या बत संबभूव ।। ५ ।। निपात्य कंचिद्भुवि शुण्डयारि दन्तेन हन्तुं करिणि प्रवृत्ते । दन्तान्तरालं प्रविशन्स धीरश्चिच्छेद शुण्डां करवालवल्लया ।। ५१ ॥ भटान् योद्धन्, प्रबोधयन्ती सचेतनान्कुर्वन्तौ भुग्न आकुञ्चितो वालो वालधियोस्तो 'बालः पुंसि शिशौ केश वाजिवारणवालधौ' इति विश्वलोचनः । सक्थिजवघटित जरूरयसहितो यः पदविन्यासश्चरणनिक्षेपस्तेन, वसुन्धरां वसुधाम, स्थपुटितां नतोन्नताम्, आदधानौ कुर्वाणी, पूर्वपश्चिमसमीराभ्यां प्राचीप्रतीचीपवनाभ्यां समीरितौ प्रेरितो, सजलजलदाविव सतोयतोयदाविव, आपतन्तौ समागच्छन्तौ, सकलाश्च ते लेखजनाश्चेति सकललेखजना रणकौतुकदर्शनाय समापतिता निखिलामरसमूहास्तेषां तनूरूहाणां रोम्णाम् सौख्यशायनिकं सुखशयनसमाचारपृच्छकं रोमहर्पणमिति यावत्, भयानकं भयङ्करम्, समीकं युद्धम्, आतेनतुविस्तारयामासतुः। आयोधनमिति–आयोधनं युद्धम्, विदधतोः कुर्वतोः, कयोश्चित् कयोरपि द्वयोः, गजयोः करिणोः, स्फुरन्तः समुन्पतन्तः, मञ्जिष्टचामरगता मञ्जिष्ठरागरक्तवालन्यजनप्राप्ताः, दन्तयो रदनयोः प्रघटेन समाघातेन जनिताः समुत्पन्ना येऽग्निकणा अनलस्फुलिङ्गास्ते, सुभटः शूरैः, हमाः सुवर्णनिर्मिताः प्रदीप्राः प्रभास्वरा ये वलयाः कटकास्तेषामावलिः पङ्क्तिस्तस्याः खण्डैः शकलैस्तुल्याः सन्निभाः, नु वितर्के, दृष्टाः समवलोकिताः॥४॥ कश्चिदाज इति-परुषः कठोरः प्रचारः प्रभ्रमणं यस्य तथाभूतः, कश्चित्कोऽपि, गजः करी, प्रतिभटं विपक्षशूरम्, चरणे पादे, गृहीत्वाऽऽदाय, दिवि गगने, संभ्रामयन् संघूर्णयन्, रुपा रोपेण, दूरतरमतिविप्रकृष्टम्, ऊर्ध्वमुपरि, चिक्षेप क्षिपति स्म, मानी गोपेतः, अयञ्च प्रतिभटः, दाग झटिति, एत्य समागत्य, असिना कृपाणेन, कुम्भयुगली गण्डयुग्मम्, बिभेद विदारयामास ॥४६॥ इभोगतानामिति-संख्ये समरे, इभोगतानां गजोत्पतितानाम्, नवमौक्तिकानामभिनवमुक्ताफलानाम्, निरवग्रहेण प्रतिबन्धरहितेन, वर्षेण वृष्टया, 'वृष्टिवर्ष तद्विघातेऽवग्राहावग्रही समौ' इत्यमरः, मुक्तामयत्वं मौक्तिकप्रचुरताम्, विरोधपक्ष नीरोगताम्, दधती विभ्रती, रङ्गस्थली रङ्गभूमिः, गदाढया गदाभिधानशस्त्रसहिता विरोधपक्षे गदै रोगैराढया सहिता संबभूव समजायत, बतेति खेदे । विरोधाभासालङ्कारः, उपजातिवृत्तम् ॥५०॥ निपात्य कश्चिदिति-करि णि गजे, कञ्चित्कमपि, अरिं शत्रुम्, शुण्डया करेण, भुवि पृथिव्याम्, निपात्य समास्फाल्य, दन्तेन रदनेन, हन्तु मारयितुम्, प्रवृत्ते तत्परे, सति, दन्तान्तरालं रदनमध्यम्, प्रविशन् प्रवेशं कुर्वन् , धीरो धैर्योपेतः, सोऽरिः, करवालवल्लया कृपाणलतया, शुण्डां करम्, चिच्छेद छिनत्ति स्म ॥५१॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy