SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये युद्धप्रारम्भकेलीपिशुनजयमहावाद्यघोपैरशेषै हेपारावैर्हयानां मदमुदितकरिबृंहितैजम्भमाणैः । रथ्याध्वानैः पदातिप्रचुरतरगलसिंहनादैरमन्दैः शब्दैकाम्भोधिमग्नं जगदिदमभवत्कम्पमानं समन्तात् ॥ ४० ॥ रणान्तरायं कुर्वाणा धूल्यो या व्योन्नि जम्भिताः। तन्नाशाय ध्वजा मृत्युसंमार्जन्य इवारुचन् ॥ ४१ ॥ उद्यन्निस्साणराणप्रसरमथ सुरा जम्भमाणं निशम्य क्षीबक्षोणीपतीनां कदनविलसितं वीक्षितुं संप्रवृत्तम् । पुष्पाण्याहृत्य कल्पक्षितिरुहवनतः सौरभाकृष्टभृङ्ग व्यूहव्यारावपूराण्यधिककुतुकतः संगता व्योमसीम्नि ॥ ४२ ॥ सेनापयोधी समदाट्टहासौ शनैः शनैः संघटितौ व्यभाताम् । कल्पावसाने खलु वर्धमानावम्भोनिधी यद्वदमन्दवेगौ ॥ ४३ ॥ पदाति पदातिस्तुरङ्गं तुरङ्गो मदेभं मदेभो रथस्थं रथस्थः । इयाय क्षणेन स्फुरद्युद्धरङ्गे ध्वनज्जैत्रवादैः स्वनच्छिञ्जिनीके ॥ ४४ ॥ वेशवाटो वेश्यावासाभोगो यस्मिंस्तत्, विविधायुधानां नैकविधशस्त्राणां संस्कारपराः समुत्तेजनलीना ये जनाः पुरुषास्तैर्बभ्राम्यमाणानि संचार्यमाणानि शाणचक्रप्रभृतानि निकषचक्रादीनि यानि संस्कारसाधनानि समुत्तेजनोपायास्तैः सञ्छादितं व्याप्तम् । युद्धप्रारम्भकेलीति-युद्धप्रारम्भकेल्याः समरप्रारम्भक्रीडायाः पिशुनाः सूचका ये जयमहावाद्यघोषा विजयमहावादिनशब्दास्तः, अशेषैः सम्पूर्णैः, हयानामश्वानाम्, हेपारवैहेषितशब्दः, जम्भमाणेवर्धमानः मदेन दानेन मुदिताः प्रसन्ना इति मदमुदितास्ते च ते करिणो हस्तिनश्चेति मदमुदितकरिणस्तेषां बृंहितानि गर्जितानि तैः, रथ्याध्वानै रथसमूहशब्दः, अमन्दैः प्रचुरः, पदातीनां पदगानां प्रचुरतरं प्रभूततरं यथा स्यात्तथा गलन्तः प्रकटीभवन्तो ये सिंहानादाः पवेडितरवास्तैः, शब्दैकाम्भोधिमग्नं शब्देकार्णवनिमग्नम्, इदमेतत् , जगद् भुवनम्, समान्तात्परितः कम्पत इति कम्पमानं वेपथुसहितम्, अभवत् आसीत् । शार्दूलविक्रीडितच्छन्दः ॥ ४० ॥ रणान्तरायमिति-रणान्तरायं समरप्रत्यूहम्, कुर्वाणा विदधानाः, याः धूल्यो रजांसि, व्योम्नि नभसि, जम्भिता विततानि, तन्नाशाय तदपहाराय, ध्वजाः पताकाः, मृत्युसंमार्जन्य इव यमावस्करापहारिण्य इव, अरुचन् व्यशोभन्त ॥४१॥ उद्यन्निस्साणेति-अथ युद्धप्रारम्भानन्तरम्, सुरा अमराः, जृम्भमाणं वर्धमानम्, उद्यन्तः प्रकटीभवन्तो ये निस्साणराणा रणवादित्रशब्दास्तेषां प्रसरः समूहस्तम्, निशम्य समाकर्ण्य, सप्रवृत्तं प्रारब्धम्, क्षीबा पराक्रमातिरेकेणोन्मत्ता ये क्षोणीपतयो राजानस्तेषाम्, कदनविलसितं सम्परायचेष्टितम्, वीक्षितुं द्रष्टुम्, कल्पक्षितिरुहवनतः कल्पवृक्षविपिनात्, सौरभेण सौगन्ध्येनाकृष्टा वशीकृता ये भृङ्गा भ्रमरास्तेषां न्यूहस्य समूहस्य यो व्यारावो गुञ्जनशब्दस्तस्य पूरं सन्ततिर्येषु तानि, पुष्पाणि कुसुमानि, आहृत्य समादाय, अधिककुतुकतः प्रभूतकौतुकातिशयेन, व्योम्नि विहायसि, संगताः संमिलिताः, आसन्निति शेषः । स्रग्धरावृत्तम् ॥ ४२॥ सेनापयोधी इति-समदाहासौ सगर्वाट्टहाससहितौ, शनैः शनैर्मदं मन्दम्, संघटितौ संमिलितो, सेनापयोधी पृतनापारावारौ, तद्वत् तथा व्यभाताम् व्यशोभेताम्, यद्वत् यथा, कल्पावसाने प्रलयवेलायाम्, वर्धमानौ समेधमानौ, अमन्दवेगौ प्रभूतरयौ, अम्भोनिधी सागरौ, खलु निश्चयेन ॥४३॥ पदातिमिति-ध्वनज्जैत्रवाये शब्दायमानविजयवादित्रे, स्वनच्छिञ्जिनीके शब्दायमानमौर्वीके, स्फुरद्युद्धरङ्गे प्रकाशमानरणाजिरे, पदातिः पत्तिः, पदाति पत्तिम्, तुरङ्गोऽश्वः, तुरङ्गं हयम्, मदेभो मत्त
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy