SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ जीवन्धरचम्पूकाव्ये तदनु पार्श्वतो वृद्धमसमीक्ष्य निरर्गलबीलतरलनयनां नमितवदनां जोवन्धरस्तत्क्षणमालिङ्गय, कपोले परिचुम्ब्य, निजाङ्कमारोप्य, चाटुवचनपरिपाटीभिश्चूर्णवासादिकथाभिश्च प्रीतेः परां काष्ठां प्रापयामास। विकचकुसुमतल्पे वृद्धरूपः शयानः कुरु पदयुगलीसंवाहमित्यब्रवीत्ताम् । हृदि विलसितरागां तां तथा कुर्वती द्राक् सहचरकुलमेतं वीक्ष्य तुष्टाव हृष्टम् ॥ २६ ॥ ततश्चतुरन्तयानमारुह्य सखीभिः सह निजमन्दिरान्तरं प्रविष्टायां सुरमञ्जर्यां वयस्याजनमुखविदितवृत्तान्तौ मातापितरौ सुमतिकुबेरदत्तनामधेयौ तत्क्षणकन्दलितानन्दमन्थरौ विवाहमङ्गलं विस्तारयितुमारभेताम् । ततः कुबेरदत्तेन मुहूर्ते शुभसंगते । विश्राणितां वरश्रेणी करे जग्राह कौरवः ॥३०॥ इमं पूर्वोक्तम्, कुरुकलभं जीवन्धरम्, वीचय विलोक्य, तूर्णं क्षिप्रम्, तन्वां शरीरे रोमाञ्चश्व कम्पश्चेति रोमाञ्चकम्पो पुलकवेपथू, नयनकमलयोनॆत्रारबिन्दयोः, संमदाश्रुप्रवाहं हर्षाश्रुपूरम्, वक्त्रेन्दो मुखचन्द्रमसि, मन्दहासं मनाम्हसितम्, धनजघनतटे स्थूलनितम्बग्रान्ते, धार्मतोयप्रचारं स्वेदजलसंचारम्, चित्ते मनसि, हीर्लज्जा भीतिर्भयं मोदो हर्षः अद्भुतं विस्मयः, एत एव रसास्तन्मयतां तद्रूपताम्, अङ्गे देहे, मारसन्तापं मदनदाहम्, च, बभार दधार । स्रग्धराच्छन्दः ॥२८॥ तदन्विति तदनु तदनन्तरम्, पार्श्वतः समीपे, वृद्धं द्विजस्थविरम्, असमीच्यानवलोक्य, निरर्गलेन निष्प्रतिबन्धेन बोलेन लज्जया तरले चपले नयने यस्यास्ताम्, ब्रीडब्रीलादिशब्दयोयथेच्छं प्रयुज्यन्ते । तथाहि 'गण्डुषगर्जभुजजागरहारकीलज्वालाझटारभसवर्तकगर्द्धशृङ्गाः। ब्रीडादयश्च वरटश्च वराटकश्च उत्कण्ठबाणकरकाश्च समावयाच' । इति स्त्रीपुंलिङ्ग कथने रभसः। नमितवदनां नम्रवक्त्राम्, तां सुरमञ्जरीम्, जीवन्धरः, तत्क्षणं तत्कालम्, आलिङ्गय समाश्लिष्य, कपोले गण्डे, परिचुम्ब्य परितश्चुम्बनं विधाय, निजाकं स्वकीयोत्सङ्गम्, आरोप्याधिष्टाप्य, चाटुवचनपरिपाटीभिः प्रियवाक्परम्पराभिः, चूर्णवासादिकथाभिश्च चतुर्थलम्बवर्णितचूर्णामोदादिचर्चाभिश्व, प्रीतेः प्रेम्णः, परामन्तिमाम्, काष्टामवधिम्, प्रापयामास लम्भयामास । विकचकुसुमतल्प इति-विकचकुसुमानां प्रस्फुटितपुष्पाणां तल्पे शयने, शयानः शयनं कुर्वाणः, वृद्धरूपः स्थविरवेषः, जीवन्धरः, पदयुगलीसंवाहं चरणयुगसंमर्दनम्, कुरु विधेहि, इति, तां सुरमञ्जरीम्, अब्रवीत् जगाद । अथ च, हृदि चेतसि, विलसितरागां प्रकटितप्रीतिम्, तथा तादृशाम्, द्राक् सत्वरम्, कुर्वती विदधतीम्, तां सुरमञ्जरीम्, वीच्य विलोक्य, सहचरकुलं मित्रसमूहः, हृष्टं प्रहर्षोपेतं सत्, एतं स्वामिनम्, तुष्टाव स्तौति स्म । मालिनीच्छन्दः ॥२६॥ ततश्चन्तुरन्तयानमिति-ततस्तदनन्तरम्, सुरमार्याम्, चतुरन्तयानं शिविकावाहनम्, आरुह्य समधिष्ठाय, सखीभिरालोभिः, सह सार्धम्, निजमन्दिरान्तरं स्वकीयभवनाभ्यन्तरम्, प्रविष्टायां कृतप्रवेशायां सन्याम्, वयस्याजनमुखादालीजनवदनाद्विदितो ज्ञातो वृत्तान्तः समाचारो याभ्यां तौ सुमतिकुबेरदत्तनामधेयौ, मातापितरौ, 'आनऋतो द्वन्द्वे' इति पूर्वपदस्यानङ्, तत्क्षणकन्दलितानन्दमन्थरौ तत्कालाश्तप्रमोदभारौ, सन्तो, विवाहमङ्गलं परिणयोत्सवम्, विस्तरयितुं प्रपञ्चयितुम्, आरभेताम् प्रक्रमं चक्रतुः । ततः कुबेरदत्तेनेति-ततस्तदनन्तरम्, कौरवो जीवन्धरः, शुभसंगते कल्याणप्रदे, मुहूर्ते समये, कुबेरदत्तेन एतन्नाम्ना वैश्यपतिना, विश्राणितां प्रदत्ताम्, वरश्रोणी श्रेष्ठनितम्बाम्, तां सुरमञ्जरीमिति यावत्, करे पाणी, जग्राह स्वीकृतवान् , परिणिनायेति यावत् ॥३०॥
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy