SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ नवमो लम्भः रहसि कुसुमवाणं प्रार्थयामास तन्वी मुकुलितकरपद्मा त्वं तथा कल्पयेति । मलयजरसलिले मौक्तिकस्फारहारे १६७ मदुरसि कुचभागे जीवकोऽसौ यथा स्यात् ॥ २७ ॥ इति प्रार्थनामनुसरन्तीं क्वचिदन्तर्हितस्य बुद्धिषेणस्य 'लब्धो वरः' इति वाणीमेणाक्षी कामदेवस्य कृपासारविलसितव चोधारां मत्वा, प्रमोदमेदुरमानसा, किश्चित्कन्धरां विनिवृत्य, पुरतो विराजमानम्, वहिरागतमिव साक्षात्कामदेवम्, जङ्गममिव कनकगिरिशृङ्गम्, सञ्चरन्तमिव नयनानन्दम्, साङ्गमिव शृङ्गाररसम्, साकारमिवाद्भुतरसप्रकारम्, सरूपधेयमिव निजभागधेयम्, लक्ष्मीविश्रान्त्यर्थमाकलित हैमशिलातलायमानललाटफलकम्, विशालविवृद्धिरोधाय वद्धसेतुवदायतनासावंशम्, श्रुताङ्गालीलाडोलायमानमणिकुण्डलमण्डितश्रवणयुगलं लक्ष्मीविहारधारागृहशङ्कावदान्यमुक्ताहारकान्तिस्वच्छ जलशोभितवक्षःस्थलं रम्भातहसम्भावनासम्पादकसुवृत्तोरुयुगलं कोकनदमदहरपद पल्लवं कुरुवीरं विलोकयामास । तवां रोमाञ्चकम्पौ नयनकलयोः संमदाश्रुप्रवासं वन्दौ मन्दहासं घनजघनतटे वार्मतोयप्रचारम् । चित्ते ह्रीभीतिमोदाद्भुतरसमयतां मारसंतापमङ्गे सेयं सारङ्गनेवी कुरुकलभमिमं वीक्ष्य तूर्णं बभार ||२८|| रहसीति - रहसि बिजने, तन्वी कृशाङ्गी, सासुरमञ्जरी, मुकुलितकरपद्मा कुङ्मलित हस्तारविन्दा सती कुसुमवाणं मदनम्, त्वं मदनः, तथा तेन प्रकारेण, कल्पय कुरु यथा येन प्रकारेण, असौ प्रसिद्धः, जीवको जीवन्धरः, मलयजरसलिले चन्दनलिप्ते, मौक्तिकस्फारहारे मुक्तामय विशालहारे, मद्दुरसि सदीयवक्षसि, कुचभागे स्तनप्रदेशे, स्याद्भवेत्, इति, प्रार्थयामास ययाचे । मालिनीच्छन्दः ॥२७॥ इति प्रार्थनामिति - इति पूर्वोक्तप्रकाराम, प्रार्थनां याञ्चाम्, अनुसरन्तीमनुगच्छन्तीम्, क्वचित्क्वापि, अन्तर्हितस्य तिरोहितस्य, बुद्धिषेणस्य तन्नाममित्रस्य, वरो जीवन्धरः, लब्धः प्राप्तः, इत्येवम्, वाणीं भारतीम्, कामदेवस्य कन्दर्पस्य, कृपासारेण दयासारेण विलसिता शोभिता या वचोधारा वचनपक्तिस्ताम्, मत्वा ज्ञात्वा प्रमोदेन प्रहर्षेण मेदुरं व्याप्तं मानसं चित्तं यस्याः सा, एणाक्षी मृगलोचना, सुरमञ्जरी, कन्धरां ग्रीवाम्, किच्चिन्मनाक्, विनिवृत्य वक्रीकृत्य, पुरतोऽग्रे, विराजमानं शोभमानम्, बहिरागतं बहिः प्राप्तम्, साक्षात् स्वयम्, कामदेवमिव प्रद्युम्नमित्र, जङ्गमं गतियुक्तम्, कनकगिरिश्टङ्गमित्र सुमेरुशिखरमिव, सञ्चरन्तं प्रचलन्तम्, नयनानन्दमिव चक्षुः प्रमोदमिव, साङ्गं सशरीरम् शृङ्गाररसमिव प्रथमरसमिव, साकारं सविग्रहम्, अद्भुतरसप्रकार मित्र विस्मयरस संस्थानमिव, सरूपधेयं रूपसहितम्, निजभागधेयमिव स्वकीयभाग्यमिव, लक्ष्मीविश्रान्त्यर्थं कमलाविश्रमाय, आकलितं घृतं हैमशिलातलायमानं सुवर्णशिलासदृशं ललाटफलकं निटिलतटं येन तम्, विशाला प्रभूता या विवृद्धिस्तस्या रोधाय निवारणाय, बडो रचितो यः सेतुः पुलिनं तद्वत्, आयतो दीर्घो नासावंशो यस्य तम् श्रुताङ्गायाः सरस्वत्याः लीलाडोलायमानाभ्यां क्रीडान्दोलिकावदाचरद्द्भ्यां मणिकुण्डलाभ्यां रत्नमयकर्णालङ्काराभ्यां मण्डितं शोभितं श्रवणयुगलं कर्णयुगं यस्य तम्, लक्ष्म्याः श्रिया विहारधारागृहस्य क्रीडाधारामन्दिरस्य शङ्कायां संदेहे वदान्य उदारो यो मुक्ताहारो मौक्तिकयष्टिस्तस्य कान्तिर्दीप्तिरेव स्वच्छं निर्मलं यज्जलं सलिलं तेन शोभितं समुद्भासितं वक्षःस्थलमुरःस्थलं यस्य तमू, रम्भात रुसम्भावनायाः कदलीपादपोत्प्रेक्षायाः सम्पादकं विधायकं सुवृत्तोरुयुगलं वर्तुलस्थूलसक्थियुगं यस्य तम्, कोकनदस्य रक्तकमलस्य मदहरौ गर्वापहारकौ पदपल्लवौ चरणकिसलयौ यस्य तम्, कुरुवीरं जीवन्धरम्, विलोकयामास अद्राक्षीत् । तवां रोमाञ्चकम्पाविति — सारङ्गस्येव नेत्रे यस्यास्तथाभूता मृगलोचना, इयं सा सुरमञ्जरी, १ श्रुताङ्गानां व० ।
SR No.010390
Book TitleJivandhar Champu
Original Sutra AuthorN/A
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1958
Total Pages406
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy