________________
भोजनमारसम्भवास्यं महाकाव्यम् टीकासमलंकृतम् ॥ सर्गः १० (३११ कथ्यते । तत् भक्तितन्मयतया तदेव तन्मयं तस्य भावो तन्मयता भक्तेः तन्मयता तया अवधार्यतां ज्ञायताम् ॥ ५ ॥ स्वादुतां मृदुलतामुदारतां, सर्वभावपटुतामकूटताम् । शंसितुं तव गिरः समं विधिः, किं व्यधान्न रसनागणं मम ॥ ६ ॥
(या०) स्वादुतामिति । हे नाथ विधिः विधाता तव गिरो वाण्याः स्वादुतां स्वादुनो भाव स्वादुता तां सुस्वादुत्वं मृदुलतां मृदुलस्य भावो मृदुलता तां सौकुमार्यत्वं उदारतां उदारस्य भाव उदारता मौदार्य सर्वभावपटुतां पटोर्भावः पटुता सर्वे च ते भावाश्च सर्वमावास्तेषु पटुता तां पटिष्ठतां अकूटतां कूटभावः कूटता न कूटता अकूटता तां सत्यतां समं समकालं शंसितुं स्तोतुं मम रसनागणं रसनानां गणस्तं जिह्वासमूहं किं न व्यधात् न अकरोत् ॥ ६ ॥ किन्तु ते हृदि गभीरतागुणं, शिक्षितुं वसति दुग्धसागरः। ईगुक्तिपयसां यदर्मयो, विस्फरन्ति बहिराननाध्वना ॥ ७॥
(व्या०) किन्तु इति । हे नाथ तु इति वितर्के दुग्धसागरः दुग्धानां (दुह्यते इति दुग्धं । लोबे क्तः । ५ । ३ । १२३ । इ. सू. भावे दुधातोः क्तः । भ्वादेदिर्घः । २-१-८३ । इ. सू. हस्य घ. । अधश्वतुर्थात् तथोधः । २ । १ । ७९ । इ. सू. प्रत्ययस्य तस्य धकारः । तृतीयस्तृतीयचतुर्थे । १। ३ । ४९ । इ सू. धे परे पूर्वघस्य ग.) सागर: क्षीरसमुद्रस्तव हदि गभीरतागुणं गभीरस्य भावो गभीरता सा एव गुणस्तं गांभीर्यगुणं शिक्षितुं कि चसति । यत् ईगुक्तिपयसां ईदृशश्चताः उक्तयश्च ईगुक्तयः ता एव पयांति तेषां ईशवचनदुग्धानां ऊर्मयः कल्लोलाः आननाध्वना आननस्य मुखस्य अध्वा मार्गस्तेन मुखमागेण बहिर्विस्फुरन्ति प्रसरन्ति ॥ ७ ॥ सस्थमेव सुखयन्यहो जनं, दुःखितेष्वपि सुख ददानया । बिभ्यतीव भवतो जिता गिरा, किं सुधा न वसुधामियति सा ॥८॥
(व्या०) स्वस्थमिति । हे नाथ भवतो गिरा त्वदीय वाण्या जिता सती सा सुधा वसुधां पृथ्वी कि न इयति नागच्छति । उप्रेक्षते बिभ्यती इस बिभेति