SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ३१०) श्रीजैनकुमारसम्भवाल्यं महाव्यम् टीकासमलंकृतम् ॥सर्ग:१० लक्षण वाक् लब्धवर्णजनकर्णकर्णिका लब्धा वर्णा यैस्ते लब्धवर्णाः विद्वांसः लब्धपश्चिते जनाश्च विद्वज्जनास्तेषां कर्णयोः कणिका कर्णाभरणम् । पुनः पाञ्छितार्थफलसिद्धिवर्णिका वाञ्छिताश्चते अर्थाश्च तेषां फलानि तेषां सिद्धेवर्णिका । पुनः धृतजडिम्नि जडस्य भावो जडिमा जाडयं धृतवत् जाडयं यस्मिन् स तस्मिन् घृतजाडये पुरुष पावकस्याग्नेरियं पावकी वह्निसंबधिनी दीधिति. कान्तिः ॥२॥ रूपमीशसमकं दिदृक्षते, तावकं यदि सहस्रलोचनः । ईहते युगपदञ्चनं च ते, चेत् सहस्रकर एव नापरः ॥ ३ ॥ (व्या०) रूपमिति । हे ईश तावकं तवेदं रूपं यदि समकं समकालं दिदृक्षते द्रष्टुमिच्छतीति दिदृक्षते विलोकयितुमीहते तर्हि सहस्र लोचनानि नेत्राणि यस्य स सहस्रलोचनः इन्द्रः एव नापर. । दिदृक्षते इत्यत्र स्मृदृ। इति सूत्रेणात्मनेपदं भवति । च अन्यत् चेत् यदि ते तव युगपत् समकालं अञ्चनं पूजन ईहते पाञ्छति । तदा सहस्रं कराः किरणा यस्य स सहस्रकरः सूर्यः एव नापरः ॥ ३ ॥ यो बिभर्ति रसनासहस्रक, द्वथाहतत्वमधिरोप्य सोऽप्यलम् । देव वक्तुमखिलान ते गुणा-न्मादृशः किमबलाजनः पुनः ॥ ४ ॥ (व्या०) य इति । हे देव योद्वयाहतत्वं द्वाभ्यामाहतत्वं द्विगुणत्वं अधिरोप्य रसनासहस्रं रसनानां सहस्रं तत् जिह्वासहस्रं बिभति । सोऽपि शेषनागः तव अखिलान् समस्तान् गुणान् वक्तुं न अलं न समर्थ । माशो मत्सदृश अबला एवं जनः स्त्रीजन: किं पुन: ॥ ४ ॥ धीधनोचित भवद्गुणस्तवा-द्वारकेऽपि निजजाडयचिन्तने । उच्यते किमपि नाथ यन्मया, भक्तितन्मयतया तदर्थताम् ॥ ५॥ (व्या०) धी इति । हे नाथ मया निजजाध्यचिन्तने निजस्य जाडयं मुर्सत्वं तस्य चिन्तने आत्मीयमूर्ख वचिन्तने। धीधनोचितभवद्गुणस्तवान् धीः धनं येषां ते धीधना विद्वांसः तेषां उचिता ये भवतो गुणास्तेषां स्तवान् विद्धजनयोग्यावदीयगुणस्तवान् निवारयतीति निवारकं तस्मिन् सत्याप किमपि उच्यते
SR No.010341
Book TitleJain Kumar Sambhavakhyam
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherAcharyarakshit Pustakoddhar Sanstha
Publication Year
Total Pages397
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy