SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ७३ प्रतिसूत्रं श्रीमवणुभान्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः। २ भूताधिकरणम् । ५ मर्यादाभक्तानामिन्द्रियाणि भूतेषु लीयन्ते। यत्रास्येति श्रुतेः। ३१९ ६ मर्यादाभक्तस्य ज्ञानिनश्चोभयोरपि मर्यादायामङ्गीकारो यतो ३२१ याज्ञवल्क्यार्तभागौ तथा दर्शयतः ॥ ३ समानाधिकरणम् । ७ मर्यादामार्गे जीवसंसरणमारभ्य मोक्षपर्यन्तं साधनेनैव ३२२ मुक्तिरिति व्यवस्था समाना । मध्ये भेदो न भवति । पुष्टिमार्गे तु साधनमकृत्वैवामृतं नियतम् । ८ पुष्टिफलदशायां मर्यादामार्गीयमोक्षस्य संसारत्वेन कथनात् ३२२ संसारतुल्यतैवातो याज्ञवल्क्यार्तभागाभ्यां मोक्षस्य कर्मत्वेन कथनम् । ९ पुष्टिमार्गीयतत्वं सूक्ष्मम् । यतो वाचो निवर्तन्त इति श्रुत्या ३२३ तथोपलब्धः। १० ननु पुष्टिमार्गीयाः स्वमार्गतत्त्वं मित्रादिभ्यः कुतो नोपदिशन्ति ३२३ तत्राह-ऐश्वर्यभावे ह्युपदेशः संभवति । पुष्टिमार्गीयाणां तु द्वे एवावस्थे । विरहदशा भगवत्संगमदशा चेति । तत्र विरहदशायामैश्वर्यादीनां विनाशादुपदेशो न संभवति । भगवत्संगदशायां त्वैश्वर्यादीनां सत्त्वेपि भगवदानन्दानुभवनि मग्नचित्तत्त्वेनोपदेशस्यासंभवः । ११ ननु रसात्मकभगवत्स्वरूपानुभवे तेषां विरहदुःखं कथमिति ३२४ चेत्तत्राह-अस्यैवानन्दात्मकभगवत एव धर्मो विरहाख्यः । नन्वानन्दात्मकस्य दुःखरूपो धर्मः कथमिति चेन्न । भगव दन्तःप्राप्तिबाह्यप्राप्तिभ्यामानन्दानुभवविरहतापयोरुपपत्तेः । १२ ननु श्रुतौ दुःखं निषिध्यत इति चेन्न तत्र श्रुतौ रोगेण सह ३२४ पाठाच्छारीरदुःखस्यैव तत्र निषेधात् । एवं च शृङ्गारव्यभिचारिभावात्मकं तु दुःखं न निषिध्यते ।
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy