SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ' प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् । सूत्राङ्काः पृष्ठाङ्काः । ४१ लोकन्यायेन जीवप्रकृत्योरन्तवत्त्वं भवेत् । ततश्वानित्यतायां १३८ मोक्षशास्त्रवैफल्यम् । 'तत्परिहाराय विभुत्वनित्यत्वेङ्गीक्रियमाणे संबन्धाभावादसर्वज्ञता स्यात् ॥ ८ उत्पस्य संभवादित्यधिकरणम् । ४२ उत्पत्तौ व्यूहत्वासंभवाद् व्यूहत्वे चोत्पत्त्यसंभवाज्जीवोत्पत्तौ १३८ मोक्षस्याप्यसंभवादंशेनानेन भागवतमतमसंगतम् । ४३ न हि कुलालाद्दण्ड उत्पद्यतेतः कर्तुः संकर्षणसंज्ञकाजीवा - १३९ न्मन उत्पद्यत इत्य संगतम् । ४४ सर्वेषां संकर्षणादीनां परमेश्वरत्वं चेदङ्गीक्रियते तदानेकेश्वर- १३९ त्वापत्तिः । ४५ बहुकल्पनया वेदनिन्दया न विप्रतिषेधेन भागवतमते १३९ तेतेंशा विरुद्धाः ॥ द्वितीयाध्यायस्य तृतीयः पादः २ । ३ ॥ १ न वियदित्यधिकरणम् । १ छान्दोग्ये श्रवणाभावादाकाशस्योत्पत्तिर्नास्ति । २ तैत्तिरीयके श्रवणाद्वियदुत्पत्तिरस्ति । १३९ १४० ३ निरवयवत्वेन व्यापकत्वेनाकाशस्त्रोत्पत्तिर्न संभवत्यतस्तैत्ति - १४० यस्था सा गौणीत्याशङ्का । ४ वायुश्वान्तरिक्षं चेति श्रुतावमृतत्व श्रवणादपि नोत्पत्तिः । १४० ५ ननु कथं वियदुत्पत्तिर्गौणी भविष्यति तत्र हि संभूतमित्येकमेव १४१ पदमुत्तरत्रानुवर्त्यते । तथा सत्त्युत्तरत्र मुख्या । आकाशे गौणीति युगपद्वृत्तिद्वयविरोध इति चेन्न । यतो यथा तपसा ब्रह्म विजिज्ञासस्व त्रपो ब्रह्मेति श्रुतावेकस्यैव ब्रह्मशब्दस्यैकत्र मुख्या वृत्तिस्तपसि च गोणी तथैवात्र भविष्यति । T
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy