SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ५ १० अं. २ पा. १ सू. ६ ] २० अणुभाष्यम् । दृश्यते तु ॥ २।१।६ ॥ । परिहरति । तुशब्दः पक्षं व्यावर्तयति । दृश्यते हि कार्यकारणयोवैरूप्यं केशगोमय वृश्चिकादौ । चेतनादचेतनोत्पत्तिनिषेधे तदंशस्यैव निषेधः । तुल्यांशसंपत्तिश्चेत्प्रकृतेपि सदंशः ॥ २।१।६ ॥ ४ ॥ १२२ ५ असदिति चेत्यधिकरणम् । असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ २।१।७ ॥ श्रुतौ कारणत्वेनासदुक्तमिति चेन्न प्रतिषेधार्थमेव वचनम् । कथमसतः सज्जायेतेति । कार्यस्य वा पूर्वविप्रतिषेधो ब्रह्मकारणत्वाय || २|१|७ ॥ अपीतौ तद्वत्प्रसंगादसमञ्जसम् || २|१|८ ॥ पूर्वपक्षमाह । अपीतिर्लय: । कार्यस्य कारणलये तद्वत् प्रसंग: । स्थौल्यसावयवत्वपरिच्छिन्नत्वाशुद्धत्वादिधर्मसंबन्धावश्यकत्वादसमञ्जसं ब्रह्मकारणवचनम् ॥ २२११८ ॥ न तु दृष्टान्तभावात् ॥ २।१।९ ॥ नैवास्मदीये दर्शने किंचिदसामञ्जस्यमस्तीति तुशब्देन परिहरति । १५ स्वपक्षस्थापनपरपक्षनिराकरणयोर्विद्यमानत्वान्न तुवचनम् । तत उत्पन्नस्य तत्र लये न कार्यावस्थाधर्मसंबन्धः शरावरुचकादिषु प्रसिद्धः । भवतां परं न दृष्टान्तोस्ति || २|१|९ ॥ स्वपक्षदोषाच्च ॥ २|१|१० ॥ स्वपक्षे चैते प्रतिवादिनः साधारणा दोषाः । निर्विशेषात्प्रधानात्सविशेषस्य कार्यता । तस्योत्पत्तिः । लये तद्धर्मसंबन्धः । असत्कार्यवादप्रसंग: । तथैव कार्योत्पत्तौ कारणाभावेन नियमाभावः । भावे वा मुक्तानामपि पुनर्बन्धप्रसंग || २|१|१० ॥ - reads वैरूप्यम् for वैरूप्यम |
SR No.010151
Book TitleAnubhashyam
Original Sutra AuthorN/A
AuthorVallabhacharya, Shridhar T Pathak
PublisherShridhar T Pathak
Publication Year1921
Total Pages501
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy