SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ एकादशाहे कपिलादानम् । ४३ द्युपचारै: पुरुषसून नाममन्त्रेण च लक्ष्मीनारायणप्रतिमां सम्पूज्य शय्यां च नाममन्त्रेण गन्धाद्युपचारैः सम्पूज्य 'ॐ नमः प्रमाण्यै देव्यै' इत्युचरन् चतुर्दिशं शय्यां प्रणम्य प्रदक्षिणीकृत्य च हस्ते कुशादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्यामुकप्रेतस्य (अमुकगोत्राया अमुकप्रतायाः ) सकलनरकयातना - धर्मशीतादिबाधा - याम्यपुरुषप्रहारनिवृत्तिपूर्वकानेककल्पान्तपुरन्दरादिसकललोकप्राप्त्यर्थं घृतकुम्भ-जलकलश-ताम्बूलकुङ्कुमागरुकर्पूरचन्दनदीपिका पादुकोपानच्छत्रचामरासननानाविधभाजनसुवर्णरजतभषणविविधभक्ष्यभोज्यादर्श ( कङ्कतकाचमणिसूत्रकाचकङ्कणनासिकाभूषणसिन्दूरादिसौभाग्यद्रव्य ) यथासम्भवपट्टकौशेयक्षौमौर्णकार्पासवस्त्र ( वाहनायुध ) हेमलक्ष्मीनारायणप्रतिमायुतामिमां ( यथाशक्त्युपकरणवतीं वा ) शय्यां प्रजापतिदैवतां युवाभ्यां सम्प्रददे ॐ तत्सन्न मम इति सङ्कल्प्य - यथा न कृष्णशयनं शून्यं सागरजातया । शय्या (ताया शून्या ) प्रेतस्याशून्यास्तु तथा जन्मनि जन्मनि ॥ यस्मादशून्यं शयनं केशवस्य शिवस्य च । शय्या ( प्रेताया अशून्या ) प्रेतस्याशून्यास्तु तस्माज्जन्मनि जन्मनि ॥ इति मन्त्राभ्यां द्विजदम्पतिहस्ते दद्यात् । मुहूर्तं शय्यायां द्विजदम्पती विश्रामयेत् । कृतस्यास्य शय्यादानस्य प्रतिष्ठा सिद्धये इदं सुवर्णं निष्क्रयद्रव्यं वा युवाभ्यां सम्प्रददे इति दत्त्वा प्रणिपत्य क्षमापयेत् । यस्य स्मृत्येति पठेत् । अथ कपिलादानम् । कपिलां गां निष्क्रयद्रव्यं वा पुरतोऽवस्थाप्य हस्ते कुशादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्यामुकप्रेतस्य (अमुकगोत्राया अमुकप्रेताया :) प्रेतत्वनिवृत्तिपूर्वकोत्तमलोकप्राप्त्यर्थं कपिलादानमहं करिष्ये, तदङ्गत्वेन गवादिपूजनं च करिष्ये इति संकल्प्य - कपिले सर्वदेवानां पूजनीयासि रोहिणी । तीर्थं धेनुमयी यस्मादतः शान्तिं प्रयच्छ मे ॥ इति गां सम्पूज्य साक्षाद्गोरभावे अमुकद्रव्याय नम इति सम्पूज्य हस्ते जलादिकमादाय देशकालौ सङ्कीर्त्य अमुकगोत्रस्यामुकप्रेतस्य (अ
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy