SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४४ अन्त्यकर्मदीपके मुकगोत्राया अमुकप्रेताया: ) प्रेतत्वविमुक्तिपूर्वकोत्तमलोकप्राप्त्यर्थमिमां यथाशक्तयलकृतां पूजितां कपिलां ( निष्क्रयद्रव्यं वाऽमुकदैवतं ) रुद्रदैवताममुकगोत्रायामुकशर्मणे ब्राह्मणाय दातुमहमुत्सृजे ॐ तत्सन्न मम इति सङ्कल्प्य यज्ञसाधनभूतेत्यादि पठित्वा दद्यात् । ततो दानप्रतिष्ठां कृत्वा यस्य स्मृत्येति पठेत् । अथोदकुम्भदानम् । (१) संवत्सरदिनपरिमितान्मध्येऽधिमासपाते त्रिंशदधिकान् सान्ना (१) यद्यपि-एकादशाहात्प्रभृति घटस्तोयान्नसंयुतः। दिने दिने प्रदातव्यो यावत् संवत्सरं सुतैः ।। इति हेमाद्रौ स्मृतिसमुच्चये वचनात् एकादशाहमारभ्य मृतितिथिं यावत् संवत्सरदिनसंख्यागणनायां पञ्चाशदधिकशतत्रयसंख्यैव सम्पद्यते, चान्द्रमानेन एकस्मिन् सावनेऽब्दे पञ्चषाणां दिनानां हासावश्यंभावात् ततोऽपि पञ्चषाणि दिनानि न्यूनान्येव भवन्ति, षष्टयधिकशतत्रयसंख्या तु न कदाचित् सम्भवति इति सपिण्डनापकर्षे अन्नश्चैव स्वशक्त्या तु संख्याकृत्वाऽऽब्दिकावधि । दातन्यं ब्राह्मणे स्कन्द घटादौ निष्क्रयं तु वा ॥ तेनापकृष्य दातव्यं प्रेतस्याप्युदकुम्भकम् । इति गोभिलभाष्यस्थस्कान्दवचनानुसारेण युगपद्दीयमानोदकुम्भानां षष्टयधिकश तत्रयसंख्या न कथमपि उपपद्यते तथाऽपिमृते पितरि वै पुत्रः पिण्डमन्दं समाचरेत् । अन्नं कुम्भं च विप्राय प्रेतनिर्देशधर्मतः॥ इति हारीतवचने अब्दमिति उपादानात् अब्दपूर्तेश्च मृतिदिनमारभ्य मृतिदिनपर्यन्तं गणनायामेव सम्भवात् चान्द्रमाने पञ्चषाणां दिनानां हासेऽपि तिथीनां षष्ट्यधिकशतत्रयसंख्याकानां सम्भवात् युगपत् करिष्यमाणदाने सूक्ष्मदृष्ट्या संख्याऽनाक. लनात् अधिकद्रव्यस्य दानेऽपि दोषासम्भवात् क्रियातिरेके एव अवैधत्वस्मरणात् समाचाराच्च षष्ट्यधिकशतत्रयसंख्याकानामेव उदकुम्भानां दानमनुष्ठीयते । केचित्तु हारीतवचनादेव मृतिदिनमारभ्य सान्नोदककुम्भदानमनुतिष्ठन्ति । तन्न युक्तम् । __ एकादशाहात्प्रभृति घटस्तोयान्नसंयुतः।। इति हेमाद्विवचो विरोधात् । आशौचेन तत्रानधिकाराच्च । अत एवयस्य संवत्सरादर्वाक सपिण्डीकरणं भवेत् । मासिकं चोदकुम्तं च देयं तस्याऽपि वत्सरम्॥ इति सपिण्डनानन्तरं पुनरनुष्ठीयमानसान्नोदकुम्भदाने मध्ये आशौचप्राप्त लोप एव दर्शवत् इति निर्णयसिन्धौ उक्तम् । उदकुम्भैः सह दीपा अपि देयाः । प्रत्यहं दीपको देयो मार्गे तु विपमे नरैः । यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥ इति देवजानीये गारुडादिति ।
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy