SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ श्रीगणेशाय नमः । श्रीसद्गुरवे नमः । अन्त्यकर्मदीपकः। सर्वस्फूर्तिविधातारं सर्वविघ्नविनाशनम् । सर्वाभीष्टप्रदातारं सद्गुरुं प्रणमाम्यहम् ॥ १ ॥ . पर्वतीयेन पन्तेन नित्यानन्देन धीमता । क्रियते बालबोधार्थमन्त्यकर्मप्रदीपकः ॥ २ ॥ तत्र तावत् आधान-पुंस-सीमन्त-जात-नामा-न्न-चौलकाः । मौञ्जी-व्रतानि गोदान-समावर्त-विवाहकाः ॥ ( व्रतानि चत्वारि ) अन्त्यञ्चैतानि कर्माणि प्रोच्यन्ते षोडशैव तु । इति जातूकरघुन अन्त्यसंस्कारस्यापि षोडशसंस्कारेषु परिगणनात् , ब्रह्मक्षत्रविशः शूद्रा वर्णास्त्वाधास्त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रिया: ।। इति याज्ञवल्क्येन गर्भाधानादिसंस्कारेषु अन्त्यत्वेन श्मशानकर्मण उक्तेः तस्याऽपि गर्भाधानादिसंस्कारघटकत्वकथनाच्च समावर्तनान्तसंस्कारेषु सप्रयोगेषु निरूपितेषु अन्त्यसंस्कारस्यापि निरूपणावश्यकत्वात् अन्त्यकर्म सप्रयोगं निरूप्यते । तत्रादौ प्रसङ्गात् ममूर्षुकृत्यं निरूप्यते____ आसन्नमरणं पित्रादिकं ज्ञात्वा पुत्रादयस्तीर्थ (१)नीत्वा व्रतोद्यापनसर्वप्रायश्चित्तदशदानादि कारयेयुः, स्वयं वा तदन्वारब्धाः कुर्युः । (१) तीर्थप्रकाशे दानधर्म भाद्रकृष्णचतुर्दश्यां यावदाक्रमते जलम् । तावद् गर्भ विजानीयात्तदन्यत्तीरमुच्यते ॥ ब्रह्माण्डे-सार्धहस्तशतं यावत् गर्मतस्तीरमुच्यते । अत्र न प्रतिगृह्णीयात् प्राणैः कण्ठगतैरपि ॥ ------- ----------
SR No.010150
Book TitleAntya Karm Dipak
Original Sutra AuthorN/A
AuthorNityanandparvati
PublisherChaukhamba Sanskruti Pustakalaya
Publication Year1952
Total Pages169
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, Ritual, Religion, & Vidhi
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy