SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ११ शास्त्रेणानेन सर्वस्य लोकस्य परमं सुखम् । चतुर्वर्गफलप्राप्तिस्सल्लोकच भवेद्ध्रुवम् ॥ ३० ॥ शिल्पशास्त्रपरिज्ञानान्मर्त्योऽपि सुरतां व्रजेत् । परमानन्दजनकं देवानामिदमीरितम् ॥ ३१ ॥ शिल्पं विना नहि जगत्त्रिषु लोकेषु विद्यते । जगद्विना न शिल्पञ्च वर्तते वासव प्रभो ॥ ३२ ॥ अतो लोकेषु सर्वेषु शिल्पं बहुविधं ततम् । ग्रामाणाश्च पुरीणाश्च लक्षणं बहुधा स्मृतम् ॥ ३३ ॥ खेटकर्वटकादीनां दुर्गाणामपि लक्षणम् । प्रासादेषु च हर्म्येषु देवानां भूभुजामपि ॥ ३४ ॥ 1 विविधेष्वपि निर्माणेष्वपि सन्दूप्यकं बहु भवने न्यायशालायां सभायां कोशसद्मनि ॥ ३५ ॥ अन्तःपुरे शस्त्रगेहे शालासु विविधासु च । क्रीडागेहेषु रम्येषु तोरणादिषु' मञ्जिके || ३६ ॥ 3 अधिष्ठानोपपीठेषु' गोपुरेषु तथा बहु । सङ्कीर्ण भवनाढ्येषु पताकापारिभद्रके || ३७ || 1. 2. 3. Arch and its supports at the main gate etc. Pedestal placed above the base Towers
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy