SearchBrowseAboutContactDonate
Page Preview
Page 799
Loading...
Download File
Download File
Page Text
________________ अथ लक्ष्मीगौर्यादिबेरलक्षणकथनं नाम यशीतितमोऽध्यायः ॥ देवालयेषु सर्वेषु देवीनां स्थापनं शुभम् । शक्तीनाञ्च सयन्त्राणां पूजनं वेदपारगैः ॥ १ ॥ भट्टारकैदीक्षितैर्वा सर्वक्षेमकरं भवेत् । तस्मात्प्रकल्पयेच्छिल्पी देवीनां बेरमुत्तमम् ॥ २ ॥ तपस्यन्तीमपणां वा गौरीमीशेन संयुताम् । नानासुरप्रमथिनीं भक्तरक्षाप्रदान्तु वा || ३ || || प्रशीतितमोऽध्यायः ॥ अथास्मिन्व्यशीतितमेऽध्याये ग्रामकृतनगरकृतालयस्थानेषु स्थापनीयानां सर्वासामपि गौरीलक्ष्म्यादिदेवीबेराणां स्थापनक्रममुपपादयति -- देवालयेष्वित्यादिना । दुष्टहदुर्व्यायनेकोपद्रवनिरासनाय, तङ्कारेण परमसुखप्राप्त्यर्थं चावश्यमेतासां देवीनां बेराण्यालयेषु स्थापयेदिति स्थापनप्रयोजनमप्युक्तं भवति । तस्मादनेकयन्त्रबीजाक्षररेखाविन्यासेनोपेतानां तासां देवीनां बेराणां स्थापने कचिदेवालये परमेश्वरप्राप्त्यर्थ तपस्यन्त्या अम्बिकाया बेरं स्थापयेत् । अन्यत्र देवालये परमेश्वरप्राप्तिलाभसन्तोषेण प्रसन्नमुखमण्डलाया अम्बिकाया बेरं स्थापयेत् । क्वचिद्भक्तसंरक्षणार्थं गजासुरमहिषासुराद्यनेकरिपुनिरासनोद्युक्ताया
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy