SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ तिर्यग्दलैश्च संयोज्यं कवा कुश्चिकायुतम् ॥ ३ ॥ द्वारसन्धियुतं तच्च भित्तिसन्धियुतं क्वचित् । द्वारमानान्वितं खण्डरूपं वा भिन्नरूपकम् ॥ ४ ॥ गवाक्षद्वारमुख्यान्तं पार्श्वदारुसमायतम् । यथाभिरुचिकल्पनेऽपि तत्तद्वारवैपुल्योन्नत्यादिकं पार्श्वसूत्रेण तिर्यक्सूत्रगोर्ध्व सूत्रेण च सम्यक्प्रमात्या, तत्प्रमाणापेक्षया एकाङ्गलादिषडङ्गलाधिक्यवत्पार्श्वपट्टिकासु मान नीत्या फलकासम्मेलनादिना तादृशकल्पनं प्रकल्पनीयम् ।। किञ्च सर्वेषामपि तेषां कवाटानां प्रान्ताञ्चलभागादिस्थाने दायोत्पादनार्थमयःकालघटितफलकान्तरसंमेलनं कार्यम् । एवं तेषु कवाटेषु कचिन्मध्यदारुखण्डसम्मेलनं कचित्तिर्यग्दारुखण्डसम्मेलनमपि सायःकीलकं रचयित्वा तदश्चलभागे समुचिते मिर्णिका कुचिकामेलनम्न दृढं कारयेत् ।। एवरीत्या यथाक्रम काल्पतं कवाट द्वारस्तम्भयोजित. मुकुलिकाखण्डोपरि संस्थाप्य, यथाक्रम, यथामानं घाटनोद्घाटनाईञ्च दृढीकृत्य बन्धयेदित्यर्थः । मुकुलिका नाम कवाटधारणस्थलम् । कचिद्गोपुरकवाटानां बृहदाकृतीनामेतादृशमुकुलिकास्थानस्थापनवत् कपाटपार्श्वभित्तिमध्यभागे एकवितस्तिप्रमाणरन्ध्रकल्पनं दृढं कारयित्वा तत्र दृढार्गलसंयोजनश्च कारयेदिति क्रमः ॥
SR No.010145
Book TitleVishwakarma Vastushastram
Original Sutra AuthorN/A
AuthorVasudev Shastri, N B Gadre
PublisherS Gopalan Tanjor
Publication Year1958
Total Pages834
LanguageHindi
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy