SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ १११ देवरहल्लिका लेख रणनखमण्डलो नारायण[चरण]निहितभक्तिः शूरपुरुषतुरगनरवारणघटासंघट्टदारुणसमरशिरसि निहितात्मकोपो भीमकोपः प्रकटरतिसमयसमनुवर्त्तनचतुरयुवतिजनलोकधूर्तोऽलोकधूर्तः सुदुर्द्धरानेकयुद्धमूर्धलब्धविजयसम्पद हितगजघ (IIIh) टाकेसरी राजकेसरी । अपि च । यो गङ्गान्वयनिर्मलाम्बरतलव्याभासनप्रोल्लसनमार्तण्डोऽरिभयङ्करः शुभकरस्सन्मार्गरक्षाकरः । सौराज्यं समुपेत्य राज्यसमितौ राजन् गुणैरुत्तमराज-श्रीपुरुषश्चिरं विजयते राजन्य-चूड़ामणिः ।। कामो रामासु चापे दशरथतनयो विक्रमे जामदग्न्यः प्राज्यैश्वर्ये बलारिबहुमहसि रविस्व-प्रभुत्वे धनेशः । भूयो विख्यातशक्तिस्स्फुटतरमखिलं प्राणभाजं विधाता धात्रा सृष्टः प्रजानां पित(पति)रिति कवयो यं प्रशंसन्ति नित्यं ।। तेन प्रतिदिनप्रवृत्तमहादानजनितपुण्याहघोपमुखरितमन्दिरोदरेण श्रीपुरुपप्रथमनामधेयेन पृथुवीकोङ्गणिमहाराजेन अष्टानवत्युत्तरे[७] पदच्छतेषु शकवर्षेष्वतीतेष्वात्मनः प्रवर्द्धमानविजयैश्वर्ये संवत्सरे पञ्चाशत्तमे प्रवर्त्तमाने मान्यपुरमधिव-( IVa)मति विजयस्कन्धावारे श्रीमूल-मूलगणाभिनन्दितनन्दिसचान्वये एरेगित्तर्नाम्नि गणे पुलिकल्गच्छे स्वच्छतरगुणकिरणि प्रततिप्राळादितसकललोकः चन्द्र इवापरः चन्द्रनन्दीनाम गुरुरासीत् तस्य शिष्यस्समस्तविबुधलोकपरिरक्षणक्षमात्मशक्तिः परमेश्वरलालनीयमहिमा कुमारवद्वितीयः कुमारण(न)न्दी नाम मुनिपतिरभवत् तस्यान्तेवासी समधिगतसकलतत्त्वार्थसमर्थितबुधसार्थसम्पत्सम्पादितकीर्तिः कीर्त(त्ति)नन्द्याचार्यो नाम महामुनिस्समजनि तस्य प्रियशिष्यः शिष्यजनकमलाकरप्रबोधनकः
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy