SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जैन - शिलालेख संग्रह कोणिमहाधिराजः अविनीतनामा तत्पुत्रो विजृम्भमाणशक्तित्रयः अन्दरि - आलत्तूर्-प्पोरुळ रें- पेल्लनगराद्यनेकसमरमुख मखहुतप्रहतशूरपुरुषपशूपहारविवसविहस्तीकृतकृतान्ताग्निमुखः किरातार्जुनीयपञ्चदशसर्ग- ( IIb ) टीकाकारो दुर्विनीतनामधेयः तस्य पुत्रो दुर्दान्तविमर्द्दविमृदितविश्वम्भराधिप मौलिमालामकरन्दपुञ्ज पिञ्जरीक्रियमाणचरणयुगलनलिनो मुष्करनामधेयः तस्य पुत्रश्चतुर्दशविद्यास्थानाधिगतविमलमतिः विशेषतोऽनवशेषस्य नीतिशास्त्रस्य वक्तृप्रयोक्तृकुशलो रिपुतिमिरनिकरनिराकरणोदय भास्करः श्रीविक्रमप्रथितनामधेयः तस्य पुत्रः अनेकसमरसम्पादितविजृम्भितद्विरदरदनकुलिशाघात - व्रणसंरुड भास्वद्विजयलक्षणलक्षीकृतविशालवक्षस्थल: समधिगतसकलशास्त्रार्थतत्वस्समाराधितत्रिवर्गो निरवयचरितर् प्रतिदिनमभिवर्द्धमानप्रभावो भूविक्रमनामधेयः अपि च ११० नानाहेतिप्रहारप्रविघटित भटोर ष्कवाटोन्थितास्त्रग् धाराखाद - प्र (III) मत्तद्विपशतचरणक्षोदसम्मर्द्दईभीमे । संग्रामे पल्लवेन्द्रं नरपतिमजयद्यो विळन्दाभिधाने राज- श्रीवल्लभाख्यस्समरशतजयावाप्तलक्ष्मीविलासः ॥ तस्यानुजो नतनरेन्द्रकिरीटकोटि रत्नार्कदीधितिविराजितपादपद्मः । लक्ष्य स्वयम्वृतपतिर्भवकामनामा शिष्टप्रियोऽरिगणदारणगीतकीर्त्तिः ॥ तस्य कोङ्गणिमहाराजस्य शिवमारापरनामधेयस्य पौत्रः समवनत समस्त सामन्तमुकुटतटघटितबहलरत्नविलसद मरधनुष्खण्डमण्डितच
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy