SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ पहोलेका लेख स्फुरन्मयूखैरसिदीपिका शतैर्युदस्य मातङ्गतमित्रसंचयम् । अवाप्तवान् यो रणरमन्दिरे कलचुरि श्रीललनापरिग्रहम् ॥ १२ ॥ पुनरपि च जिघृक्षोः सैन्यमाक्रान्तसालं रुचिरबहुपताकं रेवतीद्वीपमाशु | सपदि महदुदन्वत्तोयसंक्रान्तबिम्ब वरुणचलमिवाभूदागतं यस्य वाचा ॥ १३ ॥ तस्यामजस्य तनये नहुषानुभावे लक्ष्म्या किलाभिलषिते पुलकेशिनानि । सासूयमात्मनि भवन्तमतः पितृव्यं ज्ञात्वा परुद्धचरितव्यवसायबुद्धौ ॥ १४ ॥ ९५ स यदुपचितमोत्साहशक्तिप्रयोग क्षपित लविशेषो मङ्गलीशः समन्तात् । स्वतनयगतराज्यारम्भयलेन सार्धं निजमतनु च राज्यं जीवितं चोज्झति स्म ॥ १५ ॥ तावत्तच्छत्रभंगे जगदखिलमरात्यन्धकारोपरुद्धं यस्यासह्यप्रतापद्युतिततिभिरिवाक्रान्तमासीत्प्रभातम् । नृत्यद्विद्युत्पताकैः प्रजविनि मरुति क्षुण्णपर्यन्तभागेगर्जद्भिरिवाहैरलिकुलमलिनं व्योम या (जा) तं कदा वा ॥ १६ ॥ लब्ध्वा कालं भुवमुपगते जेतुमाप्यायिकाख्ये गोविन्दे च द्विरदनिकरैरुत्तराम्भोधिरथ्याः । यस्यानीकैर्युधि भयरसज्ञत्वमेकः प्रयात स्तत्रावाप्तं फलमुपकृतस्यापरेणापि सद्यः ॥ १७ ॥
SR No.010111
Book TitleJain Shila Lekh Sangraha 02
Original Sutra AuthorN/A
AuthorM A Shastracharya
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1952
Total Pages267
LanguageHindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy