SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १०२ जैनग्रन्थ-प्रशस्तिसग्रह भव्यश्रेणिमनःप्रमोदसदनं भक्त्याऽनघं कीर्तनं नानासत्पुरुषालिचेष्ठितयुतं पुण्यं शुभं पावनं ॥३२॥ श्रीवर्द्धमानेन जिनेश्वरेण त्रैलोक्यवंद्येन [यदुक्त]मादौ । ततः परं गौतमसंज्ञकेन गणेश्वरेण प्रथितं जनाना ॥३३॥ ततः क्रमाच्छीजिनसेननाम्नाचार्येण जैनागम-कोविदेन । सत्काव्य केलीसदनेन पृथ्व्या नीतं प्रसिद्ध चरितं हरेश्च ॥३४॥ श्रीकुन्दकुन्दान्वयभूषणोऽथ बभूव विद्वान् किल पद्मनन्दी। मुनीश्वरो वादिगजेन्द्रसिहः प्रतापवान् भूवलये प्रसिद्धः ॥३५॥ तत्पट्टपकेजविकाशभास्वान् बभूव निग्रन्थवरः प्रतापी। महाकवित्वादिकलाप्रवीणस्तपोनिधिः श्रीसकलादिकीर्तिः ॥३६॥ पट्टे तदीये गुणवान्मनीषी क्षमानिधानो भुवनादिकीर्तिः । जीयाच्चिरं भव्यसमूहवंद्यो नानायतित्रातनिषेवणीयः ॥३७॥ जगति भुवनकीर्तिः भूतले ख्यातकीतिः श्रुतजलनिधिबेत्ताऽनंगमानप्रभेत्ता। विमलगुणनिवासश्छिन्नसंसारपाशः स जयति जिनराजः साधुराजीसमाजः॥३८ सद्ब्रह्मचारी गुरुपूर्वकोऽस्य भ्राता गुणज्ञोऽस्ति विशुद्धचित्तः। जिनस्य दासो जिनदासनामा कामारिजेता विदितो धरित्र्या ॥३६॥ श्रीनेमिनाथस्य चारित्रमेतदनेन नीत्वा रविषेण(जिनसेन)सूरेः। समुद्धृतं स्वान्यसुखप्रबोधहेतोश्चिरं नंदतु भूमिपीठे ॥४०॥ इति श्रीहरिवंशपुराणे भट्टारक सकलकीर्तिशिष्यब्रह्मजिनदास-विरचिते श्रीनेमिनाथ-निर्वाणवर्णनो नामैकोनचत्वारिशत्तमः सर्गः। ७६. सिद्धान्तसार ( नरेन्द्रसेनाचार्य) आदिभाग : भूर्भुवःस्वस्त्रयीनाथं त्रिगुणात्मत्रयात्मकं । त्रिभिः प्राप्तपर धाम वन्दे विध्वस्तकल्मषं ॥१॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy