SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रद्युम्नचरित्र - प्रशस्ति ५६ सोमकीर्ति - विरचिते सप्तव्य सनकथासमुच्चये परस्त्रीव्यसनफलवर्णनो नाम सप्तमः सर्गः । इति सप्तव्यसनचरित्रकथा सपूर्णा । 1 ४३. प्रद्युम्नचरित्र ( भ० सोमकीर्ति ) श्रदिभाग: श्रीमंतं सन्मति नत्वा नेमिनाथं जिनेश्वरं । विश्वजेताऽपि मदनो बाधितुं न शशाक यं ॥ १ ॥ वर्द्धमानं जिनं नत्वा वर्द्धमानं सतामिह । यद्रूपदर्शनाज्जातस्सहस्रनयनां हरिः || २ || प्रणम्य भारतीं देवी जिनेन्द्रवदनोद्गता । कृष्णपुत्रस्य चारित्र वक्ष्ये सूत्रानुसारतः ||३|| यदुक्तं चात्र विद्वद्भिर्महासेनाविसूरिभिः । तत्कथं शक्यते नूनं मया बालेन भाषित ||४|| तथापि तत्क्रमाभोजप्रणामाजितपुण्यतः । श्री नाभि ग्रन्थं प्रवक्तुं मे श्रमो न हि ||५|| X X x जिनसेनादिभिः पूज्यैराचायैर्यन्निरूपितं । करोमि शक्तिहीनोऽहं तत्पादाम्बुज सेवनात् ||१२| अन्तभाग : नन्दीता विमले गच्छे श्रीरामसेनो गुणवारिराशिः । बभूव तस्यान्वयशोभकारी श्रीरत्न कीर्तिदुरितापहारी ||१६६॥ श्रीलक्ष्मिसेनेोत्र ततो बभूव शीलालयः सर्वगुणैरुपेतः । तस्यैव पट्टोद्धरणैकधीरः श्रीभीमसेनः प्रगुणः प्रवीरः ॥१६७॥ श्री भीमसेनस्य पदप्रसादात् सोमादिसत्कीर्तियुतेन भूमौ (लोके) । रम्यं चरित्रं विततं स्वभक्त्या संशोध्य भव्यैः पठनीयमेतत् ॥ १६८ ॥
SR No.010101
Book TitleJain Granth Prashasti Sangraha 01
Original Sutra AuthorN/A
AuthorParmanand Jain
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages398
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy