SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 42 दारिधदुस्तरगहनस्य दवज्वलनज्वालायमानया कमलया च समालिंगितवक्षस्थलमधिकतरापीतपौंड्रकवासुदेवशिशुपालवाणादिदुर्दमनदुष्टदैत्यकंठबाहुसहस्ररुधिरतया समुज्ज्वलज्ज्वालामिषेण शोणितधारामिव वमता नारायणोपरि अपायसमुदायानिष्पतनायेव जागरेण निरंतरमपि परिभ्रमता सर्वदानुसृतनारायणाशयेन भानुसहस्रभासुरेणातिकृच्छ्रदर्शनेन सुदर्शनेन नारायणाध्मातवातबलपारदृश्वना कररुहकिरणद्विगुणितधवलिना निजांतःप्रवेशितनारायणकरांगुलित्रयरेखाभिरिव त्रिरेखाभिस्समलंकृतेनाकीटजन्यन पांचजन्यनापहृतपूर्वदेवजनितानिमिषभीतिगदया गदयात्यमलेन कमलेन परिमंडितमांसलवर्तुलचतुर्भुजदण्डं संध्यारागरंजितांबरडंबरहरपीतांबरपरिधानं दिव्यनवरत्नखचितकनकमेखलं वेदात्मना स्वर्णवर्णेन सपक्षेणेव कनकगिरिणा मयैवास्य महिमा प्रतिपाद्यते इति प्रदर्शयतेव करकमलाभ्यां हरिचरणसरसिजयुगलमुरहता गरुत्मता समूह्यमानं वर्ष सुरपथमिव नीलमेघश्यामलं क्षितितलमिव वनमालालंकृतं वनजाक्षमप्यवनजाक्षं वनतेयवाहनमपि विनायकवाहनं काकोदरशायिनमपि पवित्रतरं अजमपि प्रकटितविश्वरूपं विधुमपि विधुजनकजामातरं सर्वाभीष्टफलप्रदं भगवन्तं श्रीमन्तं नारायणमपश्यत् । दृष्ट्वा चामंदानंदसुधासिंधुपरिप्लावितहृदयं तस्मिन्नमस्कुर्वति चारुवक्त्रे करुणापूर्णहृदयो नारायणस्सरभसमुत्थाप्य तं वत्स ! यदभिमतं ते तदधुनैव दित्सुरस्मीत्यब्रवीत् । तदवकर्ण्य कृतांजलिपुटस्स चारुवक्त्रस्सविनयं देवदेव ! सर्वज्ञोऽपि किमप्यजानन्निव परिपृच्छसि मामेवम् ? भवतु नाम; न कदाप्यनुलंघनीया खलु भवदाज्ञा ! तदेहि देव ! विजिगीषवे मह्यमप्रतिहतं प्रहरणमिति प्रार्थयामास । एवं प्रार्थितस्समंदस्मितं मुकुन्दो घंटासहस्ररसितवाचालितदिगंतरमत्युदंडं कोदंड निशिततराप्रतिहतशर
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy