SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ चतुर्थलहरी 145 परिंभणकुतूहलेन प्रसारितभुजदण्डो लज्जाभराददत्तांगकयापि शश्वदाविर्भवत्तटित्तरलद्युतितया भीतया तया कोमलांग्या सपदि दृढतरं समालिंगितः साधुसाध्विति सौदामनीं श्लाघमानः वक्षोजजिघृक्षया प्रसारिते च पाणिकमले वीडया बाहुलतायुगलकृतस्वस्तिकबंधनस्थगितस्तनमंडलयापि हरितकंचुल्युपरि शादलशंकया परिपततां खद्योतानां ससाध्वसं समुत्सारणाय व्यापारितबाहुयुगलतया सप्रमोदमागृहीतसमुत्तुंगपयोधरकुंभयुगलः प्रशंसन् खद्योतवातान् प्रकटिते च चुम्बनेच्छयाधरोष्ठपुटे करपुटपिहिताधरतया निजहीरमणिप्रसूमरमासुरकिरणगणकांत्यसहिष्णुतया सरभसं नयनपिधानाय शिथिलिते करयुगले निष्प्रत्यूहमधरामृतमापिबन् उषाप्रतीक इवानिरुद्धालिंगनामिनंदितः जडभरत इव कुरंगीकिशोरतरलतरनयनानंदितहृदयो वामदेव इव वामप्रतीकैकीकृतनारीतनुः वैनतेय इव दंतप्रावरणयंत्रामृताहरणनिपुणः उपनतरुरिव लताबाहुवेष्टितः मन्दं मन्दं सम्लिष्टं किमपि किमपि शर्मवशायाहरंत्या जयंतिकया सुरतसुखमनुबभूव । एवमनुभूय च निधुवनश्रमसलिलसिक्तावयवौ परस्परबाहुलतावेष्टितग्रीवौ श्रममरविस्मृतशरीरौ निद्राईजतुरसघटितपक्ष्मपुटौ दीर्घाध्वगमनश्रमद्विगुणितदेहशैथिल्यौ निद्राभरपरवशीकृतमानसौ किमपि किमपि विवक्षु अपि बहिरनिस्मृतवाग्व्यापारौ अगणितशिलातलकठिनस्पर्शी अचिंतितवनसत्वभयौ तावुभावपि निद्रासुखमनुबभूवतुः । निद्राविद्राणौ तौ तु जंझावातभ्राम्यमाणाधेलिहमहीरुहनिवहतारताररावमपि शिलाद्रवीकरणनिपुणस्थूलजलधरधारापातध्वानमपि कठोरस्फूर्जथुघोषमपि नाज्ञासिष्टाम् । एवं गाढनिद्राविद्राणचेतसोस्तयोस्सतोः विलसति च भगवति भास्वति पूर्वपर्वतशिखरे रविकरचित्रितगंधर्वनगरे चांबरे यामिनीं निरंतरवर्षधारानिर्णिक्ततया बालातपकांतिविशेषभासुरे च कांतारे विटपिपत्रपटलपुटक्षरत्सलिलबिंदुपातप्रचुरगर्तकपंक्तिकदर्थिते क्षितितले विविधविचित्रपतत्रिषु सकलकलरवं डीयमानेषु गगनांकणे शीतलसलिलसंपर्कजडेन विकचJ-19
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy