SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥ श्री॥ श्रीरामशर्मणा श्रीमान् जग्गुर्वकुलभूषणः । कविनेव कविः कीर्त्या चित्रं सम्भाव्यतेऽधुना ॥ यश्च कविकुलभूषणं वकुलभूषणः कुलभूषणं, वकुलभूषणाशयश्व नारायणपादपलेहमधुरमधुपानमत्त इव गुजन् मधुकरः, भासमानभारतीमहिना समानभासोऽप्यसमानभासोदितः, कालिदासदर्शनीयोऽपि लक्ष्मीदासदर्शनीयः, वाल्मीकिवाचां अतिशयप्रतिशब्दपर्वतः, पुरातनस्य व्यासविज्ञानपुञ्जस्य नूतनस्समासः, मूर्तिमानिव सरस्वतीकलितकलवल्लकीवाद्यनूतनविनोदनादः, विश्वकर्मणा करेण वोढुमक्षमेणेव नाकलोकान्निपातितायाः चित्रतूलिकाया इव संस्कृतप्रकृतिकस्सजीवो विग्रहः, यञ्च चतुर्मुखमुखपुण्डरीकावासमधुकरी देवी सरस्वती सादरमुपसेवते, हरिहृदयमहेन्द्रनीलपक्षगन्तरकनकशुकी देवी महालक्ष्मीरप्यनुग्रहेणेक्षते, शर्वसर्वस्वमपि सर्वमङ्गळा कापि गजकलावती सरसमिति श्लाघते, तन्महाफलं रसिकलोकमृद्वीकालतावलयस्य, येन च सारस्वतकवीन्द्रसन्तानतानितेन, लक्ष्मीलक्ष्मणोऽनवधिकातिशयासंख्येयकल्याणगुणगणजलधितरंगान्तरंगेण, सर्वमङ्गलासर्वस्वदेहद्वयार्धसंघटनकर्मनिर्माणनिपुणस्येव प्रेमातिशयस्य मूर्तिमतेव रूपेण नानानाटकार्ध-सम्पूरणकरण-निपुणखनाटकार्ध-संघटनातिशयकारिणा, बाणानुकारिणापि हृदयसुखहेतुना बालधन्विनाऽपि महालक्ष्येण, बहुधा समाराधिता दिव्यतुरगाननाकारब्रह्मतेजोमयी पितामहप्रसादिता विद्याधिदेवता स्वपितृव्यश्रीवेंकटगुरुवरप्रतिपादिता च विद्या भवोद्भवतरलधनदरिद्रतोपद्रवतमस्तिरस्करणनिपुणा निपुणधिषणेन, यस्य च भाषा भारवेरिव सार्थतयैव काव्यकमलाकरश्रियं सखीमिवालिङ्गति, दण्डिन इव ललितदण्डिनी काव्यशिक्षाचार्यकमाचरति,
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy