SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ तृतीयलहरी 99 चालितस्पंदमानपलिताल्पकेशाभिः पर्णशालाबहिरांकणतलनिषण्णाभिः जरत्तरतापसीभिः दर्शनीयं, दुह्यमानदुग्धैरालिह्यमानवत्सैरतिपुष्टैर्गोकुलैः पवित्रितं, धूसरितपर्णशालाप्रदेशै मैः कर्बुरितं, तत्र तत्र भिद्यमाननारिकेलफलतया पाटलितशिलातलं, उटजाभ्यंतरात्सवल्गितमभिपततस्तारतरं कूजतस्संवीक्ष्यात्माकाननुपदमेव सहुंकारमंद्रकंठरवमुत्थाय मुहुराधाय च तानायातानतिसत्वरसञ्चाल्यमानहखवालानवनितलविनिहितजानुतलान - सकृन्निर्दयं मुखतलादूधस्तटं ताडयतः पयः पाययन्तीभिर्हरिणीभिरतिरमणीयं, तत्र तत्र सिच्यमानकाषायं भिद्यमानेंगुदीफलं शिखावलान्विष्यमाणनीवारकणं, शुककुलापीयमानकमंडलुसलिलं, कपिकुलचालिताभ्यश्शाखाभ्यः पतितान्यौंदुंबराणि फलानि भुंजानैरतिमांसलैस्स्वैरचारैः वृषभवरैरुपशोभमानं, तत्र तत्र परिपठ्यमानरामायणं, वल्कलमात्रतृप्तैरपि पीतांबरासतचित्तैः शुक्लकर्मरतैरपि कृष्णकर्मासक्तमानसैः वैखानसैस्सेव्यमानं द्वैपायनमिव शुकसंसेव्यमानं महानगरमिव गीयमानगीतं कैलासमिव वास्तव्यनीलकण्ठं कृष्णमिव सदासन्निहितधनंजय महावराहमिव क्षमाश्रितं स्वर्गमिव शतमखोपशोभमानं आश्रमदेशमपश्यम् । तदनु तमवेक्ष्य क्षिप्रमुत्क्षिप्तपक्ष्मभिस्सरभसमन्तिकमासाद्य शश्वदाघ्राय चानुसरहिरिणयूधैः परिवृतस्स मुनींद्रो निजोटजमभजत । अथ मदवलोकनाय संघशस्समागताभिस्सविस्मयमार्य ! कुत्रत्येयमिति तं दीर्घसत्रं पृच्छंतीभिः हन्त ! सौंदर्यमस्या बालिकायाः। बत! अस्मदुटजहरिणमंडलनयनडंबरहरमस्या मेचकलोचनयुगलम् । अदृष्टपूर्वमिदं रूपम् । इति परस्परं सल्लपंतीभिरहमहमिकया चुम्बंतीभिर्जरतीभिस्तरुणीभिस्तापसीभिश्च सादरमुपलालिता सकलमुनिजनवात्सल्यभाजनमभवम् । इति व्याहरंती मुखविकृतिप्रकटितारुतुदशराहतिवेदनां सौगन्धिनीं निर्वर्ण्य विवर्णमुखी किंजलिका सगद्गदबाष्पमंब ! सौगन्धिनि ! निरंतरं व्याहारेण कुंठितकंठखरासि । नीरसा रसनेयं प्रतिबध्नाति व्याहृतिम् । अप्रतीकारस्ते
SR No.010023
Book TitleJayantika
Original Sutra AuthorN/A
AuthorBakulbhushan Mahakavi
PublisherHuman Resource Development Government of India
Publication Year1990
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy