SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽधिकारः। ६३ यमस्य लक्षणम् ! भौगोपभोगादीनां निरोधेच्छाया अभावेऽपि पारतन्त्र्येणनिरोधकरणरूपत्वम्, अनुपयोगपूर्वकपापपुद्गलपरिशाटकरणरूपत्वं वा अकामनिर्जराया लक्षणम् । लोकोत्तरनिरवद्यक्रियानुष्ठानरहितते सति लौकिका. भिमतक्रियानुष्ठानयुक्तत्वम्, मिथ्यात्वसहचरितरागद्वेषादि. युक्तस्य जनस्य धर्माय पश्चाग्न्यादिसेवनयाहिंसादिकरणरूपत्वं वा चालतपसो लक्षणम् । __ अथ वालतपसो भावार्थ उच्यते-बाला नाम मिथ्याज्ञानोपरक्ताशयाः शिशव इव हिताहितमाप्तिविमुखास्तपोनुष्ठानजलानलप्रवेशगिरिशिखरभृगुपातादिकारकास्तापसांदयस्तेषां तपो वालतपः, अज्ञानकामिति । . . शीलवतत्वं नाम देशतः सर्वथा वा ब्रह्मचर्यपालनरू. पत्वम्, परदाराणां तु सर्वथावर्जनरूपत्वम् । तथाच सगगसंयमादिकं कुर्वाणोजीवो देवायुर्वनाति। योगवक्रता-विसंवादनादिकं कुर्वाणो जीवोऽशुभनामकर्म वनाति । कायवाङ्मनोलक्षणयोगस्य कुटिलतया प्रवृत्तिरूप- . त्वं योगवक्रताया लक्षणम् । अन्यथा प्रतिपादनरूपत्वं विसंवादनस्य लक्षणम् । एतद्विपरीतं योगार्जवादि-संवादनादिकं कुंर्वाणो
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy