SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ जैनतत्त्वप्रदीपेजीवः शुभनामकर्म वनाति । दर्शनविशुद्धिविनयसंपन्नताशीलवतविषयकानतिचा• रज्ञानोपयोगसंवेगयथाशक्तित्यागतपासमाधिवैयावृत्त्याईदा. चार्यबहुश्रुतप्रवचनभक्तिआवश्यकापरिहाणिमार्गमभावनाप्रवचनवत्सलत्वादिकं कुर्वाणो जीवस्तीर्थकरनामकर्म वनाति । जिनोक्ततत्त्वविषयकसम्यग्दर्शने निःशङ्कितत्वाधष्टासेवनरूपत्वं दर्शनविशुद्धेर्लक्षणम् ।। सम्यग्ज्ञानादौ तद्वत्सु चाऽऽदरकरणरूपले सति माननिवृत्तिकरणरूपत्वं विनयसंपन्नताया लक्षणम् । । ___अयमर्थः, विनीयतेऽपनीयतेऽष्टप्रकारं कर्म येनासौ विनयः, तेन संपन्नो विनयसंपन्नः; तस्य भावो विनयसं. पन्नता । स चतुर्धा, ज्ञानदर्शनचारित्रोपचारविनयभेदात् । कालाऽकाळाऽध्ययनाऽनध्ययनवहुमानोपधानादि. करणरूपत्वं ज्ञानविनयस्य लक्षणम् । निःशङ्कनिष्कासादिभवनरूपत्वं दर्शनविनयस्य ल. क्षणम् । समितिगुप्तिप्रधानाचरणरूपत्वं चारित्रविनयस्य ल.. क्षणम् । __ अभ्युत्थानासनप्रदानाञ्जल्यादिकरणरूपत्वमुपचा: रविनयस्य लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy