SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ जैनतत्वप्रदीपेप्रमत्तयोगात् प्राणातिपातरूपत्वं प्राणातिपातंक्रियाया लक्षणम् । अश्वादिचित्रकर्मक्रियादर्शनार्थ गमनरूपत्वं दाzिक्या: क्रियाया लक्षणम् । रागादिना जीवादीनां स्पृशतः पृच्छतो या क्रिया तत्करणरूपत्वं स्पर्शनप्रत्ययिकक्रियाया लक्षणम् । जीवादीनाश्रित्य या क्रिया तत्करणरूपत्वं प्रतीत्यक्रियाया लक्षणम् । हर्षवशदिश्वरथादिकं श्लाघयतो या क्रिया तत्करणरूपत्वं सामन्तोपनिपातिक्याः क्रियाया लक्षणम् । ___ स्वहस्तगृहीतजीवादिना जीवं मारयतो या क्रिया तत्करणरूपत्वं स्वाहस्तिक्याः क्रियाया लक्षणम् । यन्त्रादिना जीवाजीवादीन् निसृजतो या क्रिया तत्क: रणरूपत्वं नैसर्गिक्याः क्रियाया लक्षणम् । अथवा पापा. दानादिना प्रवृत्तिविशेषाभ्युपगमकरणरूपत्वम् । अन्याचरितपापानां प्रकाशनरूपत्वं विदारणक्रियाया लक्षणम् । आनयनं समुद्दिश्य खपरैः क्रियाकरणरूपत्वमानयनक्रियाया लक्षणम् । जिनोक्तकत्र्तव्यविधिषु प्रमादवशतोऽनादररूपत्वमनवकाङ्कक्रियाया लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy