SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽधिकारः। ४५ तासां लक्षणान्यपि मोच्यन्ते, जिनसिद्धगुर्वादीनां पूनानमस्कारवस्त्रपात्रादिप्रदानरूपवैयारत्त्याभिव्यङ्ग्यत्वे सति सम्यक्त्वमवर्षकत्वं सम्यक्त्वक्रियाया लक्षणम् । . तद्विपरीतप्रवृत्तिरूपत्वं मिथ्याक्रियाया लक्षणम् । योगत्रयकृतपुद्गलादानरूपत्वं समादानक्रियाया लक्षणम् । अथवा योगनिर्देत्तिसमर्थपुद्गलग्रहणरूपत्वम् । . तत्र धावनवलांनादिरूपः कायव्यापारः। परुषा. ऽनृतादिरूपो वाग्व्यापारः । अभिदोहादिरूपो मनो. व्यापारः। ईर्यापथकर्मकारणरूपत्वमीर्यापथिकक्रियाया लक्षणम् । गमनागमनादिचेष्टाविश्यकप्रवृत्तिनिमित्तकत्वं प्रयोगक्रियाया लक्षणम् । सचिसादिद्रव्येषु ममेति ममत्वकरणरूपत्वं परिग्रह• क्रियाया लक्षणम् । • दाम्भिकत्तितया मनोवाकायानां प्रवृत्ती प्रेरकत्वं मायामत्ययिकक्रियाया लक्षणम् । . चारित्रमोहनीयोदये सति सावधयोगादिषु प्रवृत्तिरूपत्वमप्रत्याख्यानक्रियाया लक्षणम् । कायचेष्टाविशेषरूपत्वं कायिकक्रियाया लक्षणम् ।। खगादिनिर्वर्तनरूपत्वमधिकरणक्रियाया लक्षणम् । मात्सर्यकरणरूपत्वं प्रापिकक्रियाया लक्षणम्,। दुःखोत्पादनरूपत्वं पारितापन्याः क्रियाया लक्षणम् ।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy